पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । पञ्चशरसमयसंचयकृते प्राश्वं मुञ्चन्निवेह संचरसि प्रपञ्चम् ॥ च गतिरिति किंच किल वञ्चितोऽसौ ।। ४६ ॥ पर्वशशिमुख सर्वमपहाय पूर्व कुर्वदिह गर्वमनुसृत्य हृदपूर्व ॥ न स्मरसि वस्त्वस्मदीयमिति कस्मात्सस्मर तदस्मर परमस्मदुत्तया ॥ ४७ ॥ पञ्चशरस्य कामस्य यः समयः कलादिरूपः संकेतः सिद्धान्तो वा तस्य संचयार्थ माश्वं शिवगुरूद्भवं प्रपञ्चं शरीरं मुञ्चन्निवेहास्मित्राजशरीरे स्थाने वा संचरसि तथाच हे पञ्चजनेषु मनुजेषु मुख श्रेष्ठ । यद्वा।'यस्मिन्पञ्चपंचजना आकाशश्च प्रतिष्ठितस्तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्' इति श्रुत्युक्तानां सांख्यरीत्या । 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः पप्त । ३६८९ इति पञ्चविंशतितत्वानां मुख शुद्धात्मन् । पञ्चजनपदस्य पञ्चपश्चजनपरत्वाश्रय णातू । सिद्धान्तरीत्या वाक्यशेषस्थानां माणचक्षुःश्रोत्रान्नमनसां पञ्चजनानां मुखाधि ष्ठानेत्यर्थः । पञ्चाननमप्यगच्छञ्शिवं स्वस्वरूपमप्यनामुवन्गतिश्चासैौ त्वमिति हेतो कुतः खलु वञ्चितोऽसि । गाथा ॥ ४६॥ [ असँौ निरुक्तप्राक्तनशरीरावच्छेदेन शरणागतः शिष्यसंघः । त्वं किल गतिस्त्वमेव शरणागतास्मदादिजनानां मुक्तिरिति हेतोः । पश्वमुखमपि काशीमरणावच्छेदेन ब्रह्माद्वैतात्मैक्यसाक्षात्कारोत्पादनद्वारा कैवल्यप्रदं शिवमपीत्यर्थः । अनञ्चन्नपूजयन्सन्वश्चितः । चाऽवधारणे । किमाक्षेपे । उभयभ्रष्टत्वान्नष्ट एव किमिति योजना ] ॥ ४६ ॥ किंच हे शरत्पूर्णमासीचन्द्रमुख पूर्वे सर्वे शांन्तिदान्त्यादिकमपहायेह गर्वं कुर्वन्मा नसमनुसृत्यास्मदीयं वस्त्विति कस्मान्न स्मरसि तत्तस्माद्धे अस्मराकामास्मदुक्त्या परं स्वस्वरूपं संस्मर तत्परमिति वा ॥ ४७ ॥ [ ग तादात्म्याभिमानं कुर्वत्संपादयत् । एतादृशामपूर्वमभिनवं हृदन्तःकरणम् ] ॥ ४७ ॥ १ क. "ताऽसि । २६ प'।