पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । न चरेयुरार्य यदि कः शमयेत् ।। अतितीव्रदुःसहभवोष्णकर प्रचुरातपप्रभवतापमिमम् ॥ ३४ ॥ श्रुतगेहदारसुतभृत्यधनैः ॥ अतिरुढमानभरितः पतितो भवतोद्धृतोऽस्मि भवकूपबिलात् ॥ ३५ ॥ अहमाचरं बहु तपोऽमुकरं ननु पूर्वजन्ममु न चेदधुना ॥ जगदीश्वरेण करुणानिधिना भवता कथा मम कथं घटते ॥ ३६ ॥ शान्तिप्राक्सुकृताङ्करं दमसमुच्छासोलसत्पछवं वैराग्यदुमकोरकं सहनतावलुीप्रसूनोत्करम् ॥ ऐकाग्रीसुमनोमरन्दविसृतिं श्रद्धासमुद्यत्फलं विन्देयं सुगुरोर्गिररां परिचयं पुण्यैरगण्यैरहम् ॥ ३७ ॥ किंच भवदुक्तसूक्तिलक्षणस्यामृतभानोः सुवाकिरणस्य चन्द्रस्य भानवोंऽशवो हे अंभार्य यदि न विचरेयुस्तर्हतितीव्रस्यात एव दुःसहस्य भवलक्षणस्योष्णभानोः सूर्यस्य प्रचुरावपात्प्रभवो यस्य तथाभूतमिममनुभूयमानं तापं कः शमयेत् । अतितीव्रो दुःसहो भवोष्णकरपचुरातपमभवोयस्तापस्तमिमिति वा ॥ ३४ ॥ अत एवैवंविधोऽप्यहं त्वयोद्वतोऽस्मीत्याह । बत खेदे हर्षे वा । कर्मयश्रमवि रुह्य वपआदिभिरतिरूढाभिमानेन भरितो व्याप्तः संसारकूपबिले पतितोऽहं तस्माद्भ वतोदृतोऽस्मि ॥ ३५ ॥ [ कर्मयत्रं कर्मलक्षणं घटीयत्रम् ] ॥ ३५ ॥ नन्वेकस्योद्धरणेऽपरस्यानुद्धरणे वैषम्यं मम स्यादिति चेत्तत्कृतसुकृतदुष्कृतानुसा रित्वात्तव नेत्याह । अहं पूर्वजन्मसु निश्चयेनासुकरमतिकष्टसाध्यं बहु तपोऽचरं नो चेदधुनाऽस्मिञ्जन्मनि करुणानिधिना जगदीश्वरेण भवता सह ममात्यन्तायोग्यस्य कथा कथं घटते ।। ३६ ॥ अतोऽसंख्यातैः स्वपुण्यैः सुगुरोस्तव गिरां परिचयं लब्धवानस्मि । तं विशिनष्टि । शान्तिरुपेण परिणतस्य प्राकृतस्य सुकृतस्य बीजभूतस्याङ्करं दमसमुलासस्योलसन्तं ३९३ १ क. 'भवस्ता '। २ क. 'तैरेव प'।