सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । [ सर्गः ९] यदेकमुदितं पदं यतिवर त्रयीमस्तकै स्तदस्य परिपालकस्त्वमसि तत्त्वमस्यायुधः ।। पर गालतसागतप्रलापतान्धकूपान्तर पतत्कथमिवान्यथा प्रलयमद्य नाऽऽपत्स्यते ॥ २५ ॥ प्रबुद्धोऽहं स्वप्रादिति कृतमतिः स्वप्रमपरं यथा मृढः स्वप्रे कलयति तथा मोहवशगाः ।। विमुक्ति मन्यन्ते कतिचिदिह लोकान्तरगतिं हसन्त्येतान्दासास्तव गलितमायाः परगुरोः ॥ २६ ॥ मुहुर्धिग्धिग्भेदिप्रलपितविमुक्ति यदुदयेऽ प्यसारः संसारो विरमति न कर्तृत्वमुखरः ॥ भृशं विद्वन्मोदे स्थिरतमविमुक्ति त्वदुदितां भवातीता येयं निरवधिांचिदानन्दलहरी ॥ २७ ॥ अबुधोद्वारश्च त्वया संपादित एव वेदान्तवेद्यस्थापनादित्याशयेनाऽऽह । ‘आत्मा वा इदमेक एवाग्र आसीत्' । 'ब्रह्म वा इदमग्र अभासीदेकमेव' । ‘स्पदेवं सौम्येदमग्र आसीत्' । ‘एकमेवाद्वितीयम्' इत्यादिभिर्वग्यजुःसामाग्व्यवेदत्रयीमस्तकैर्यदेकं पदं कथितं तस्यास्य पदस्य तत्त्वमस्यायधस्त्वं परं केवलं परिपालकोस्यन्यथा गलिताः पुमर्थभ्रष्टा ये सँगतास्तैः प्रलपितलक्षणस्यान्वकृपस्यान्तरेऽद्य पतत्तत्पदं कथमिव प्रलयं नाऽऽ पत्स्यतेऽपैि त्वापत्स्यत एव । पृथ्वी वृत्तम् ॥ २५ ॥ [ यदेकमद्वितीयम् । पदं पद्यत इति तथा निखिलमुमुक्षुप्राप्यं ब्रहोत्यर्थः ] ॥ २५ ॥ किंच यथा कश्चन मूढः स्वप्रे श्रमं प्राप्य सुंप्त्वा पबुद्धः प्रबोधरूपमपरं स्वप्रमे वाहं स्वमात्मबुद्ध इति कृतबुद्धिः कैलयति मन्यते तथेह लोके केचिदविवेकवशव र्तिनो बन्धरुरूपामेव लोकान्तरगतिं विमुक्ति मन्यन्ते तव परगुरोर्दासास्तु विगलित माया एतान्हसन्ति । शिखरिणी वृत्तम् ॥ २६ ॥ [ कतिचिद्वैष्णवंमन्यममुखा लोकान्तरगर्ति वैकुण्ठादिलोकान्तरगमनरूपाम् ] ॥ २६ ॥ तस्माद्रेदवादिप्रलपितविमुक्ति मुहुर्विग्धिग्यतो यस्या उदयेऽपि कर्तृत्वप्रमुखोऽ सारः संसारो न शाम्यति त्वदुक्तां स्थिरतमां विमुकिं मोदेऽनुमोदे यतः सर्वानर्थनि वृत्तिपूर्वकपरमानन्दमाप्तिरूपेत्याह । सेयं त्वदुक्ता स्वस्वरुपरूपा । एवंभूताया अपि नाशावत्वेऽनुपादेयत्वं स्यादित्यतः स्थिरतभत्युक्तम् ॥ २७ ॥ [ कर्तृत्वेति । कर्तृत्वं १ क. म्.व सोम्ये'। २ ख. घ. पि तु प्राऽऽप'। ३ ग. सुप्तात्प्रबु'। ४ ख. ग. घ. कल्पयति ।