पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । धर्मिप्रमाबाध्यशारीरिभेदो ह्यसंसृतौ ब्रह्मणि साध्यमिष्टम् ॥ त्वयेष्यते ब्रह्मधियाऽऽत्मभेदो बाध्यो घटादिममया त्वबाध्यः ॥ ८ ॥ किं कृत्स्रधर्मिप्रमया न बाध्य किंवा स यत्किचनधर्मिबोधात् ॥ घटादिके ब्रह्मणि चाऽऽत्मभेद स्यैक्यात्पन्नः स्यान्नन पूर्वदोष ।। ९ ।। [ सर्गः ८ ] धनाव्यापकम् । ततश्च सोपाविकत्वाद्यं हेत्वाभासः इत्यर्थः । ननु प्रमेयत्वातिरिक्त जडत्वाभावात्तस्य च केवलान्वयित्वात्साधनव्यापकत्वादिना नोपाधित्वमिति चेन्न । तस्यास्वप्रकाशैत्वादात्मनः स्वप्रकाशवस्य च श्रुतिन्यायासिद्धत्वात् । यद्वा । आत्मा परप्रतियोगिकभेदशून्यश्चित्त्वत्पिरवदिति प्रतिपक्षः साध्याभावसाधको हेतुर्यस्य स तव हेतुः सत्प्रतिपक्ष इत्यर्थः । उपजातिवृत्तम् ॥ ७ ॥ [ व्याप्यत्वासिद्धत्वं सोपाविकत्वे नोक्त्वा सत्प्रतिपक्षत्वमप्याह । चित्वादित्याद्युत्तरार्धेन ] ॥ ७ ॥ एवमुक्तो मण्डनो ब्रह्मपक्षकानुमानं प्रयुञ्जन्सिद्धसाध्यत्वादिपरिहारं शङ्कते । धर्मि प्रमाबाध्यशारीरिभेदो ब्रह्मणि साध्यमिष्टं हि यस्मात्संसृतिशून्ये ब्रह्म जीवप्रतियोगिक धर्मिप्रमाबाध्यभेदवत्संसृतिशून्यत्वाद्धटादिवदित्येवमस्मदिष्टत्वादात्मप्रतियोगिकभेदस्य च ब्रह्मज्ञानेन बाध्यत्वस्य तवेष्टत्वादस्माभिश्च तद्विपरीतस्य साध्यमानत्वान्न सिद्धसाधन नापि दृष्टान्तहानिर्घटादिमया तथाभूतभेदस्याबाध्यतायास्तवार्पष्टत्वादित्याह । त्वयेति ॥ ८ ॥ [ ब्रह्मणि पक्षे । धमति । धर्मी जीवस्तद्विषयिणी येयं प्रमाऽहं जीवोऽस्मीत्यादिमानसप्रत्यक्षरूपा तयाऽबाध्य एतादृशो यः शरीरिणो जीवस्य भेद जीवमतियोगिकोऽन्योन्याभाव इत्यर्थः ] ॥ ८ ॥ एतद्विकल्प्य दूषयति भगवान् । किं स भेदः समस्तधर्मिमया न बाध्य: किंवा यत्किचनधर्मिबोधान्न बाध्यः । तत्र घटगतजीवभेदस्यापि स्ववर्मिब्रह्मज्ञानबाध्यत्व स्वीकारेण यावद्धर्मिज्ञानाबाध्यत्वस्यासंप्रतिपत्त्या दृष्टान्तहानेराद्यपक्षासंभवमभिपेत्य द्वितीये दोषमाह । पुनः पूर्वोक्तः सिद्धसाधनलक्षणो दोषः स्यात्तत्र हेतुमाह । घटा दाविति । स्वरूपातिरिक्तभेदवादिमते घटादैौ ब्रह्मणि चाऽऽत्मभेदस्यैक्यात्तद्धर्मिघट ज्ञानाबाध्यजीवभेदस्य ब्रह्मण्यस्माभिरपि स्वीकृतत्वादित्यर्थः ।। ९ ॥ १ क. 'शस्याऽऽत्म'। २ ग. 'शवत्व'। ३ क. 'त्वात्पदार्थत्वादिति प्रतिपक्षहेतुः प्रतिपक्षं दर्श यतेि । आ। ४ क. ‘त्वात्तत्र दृष्टान्तः पर'।