पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ श्रीमच्छकरदिग्विजयः । १ क. ग. ५ ख. 'पप'। किं चेतनत्वेन विवक्ति साम्यं सार्वज्ञसार्वात्म्यमुखैर्गुणैव ॥ आद्ये प्रसिद्धं न स्वठूपदेश्य मन्ते स्वसिद्धान्तविरुद्धता स्यात् ॥ ८७ ॥ नित्यत्वमात्रेण मुने परात्म गुणोपमानैः सुस्वबोधपूर्वः ॥ गुणैरविद्यावृतितोऽप्रतीतै : साम्यं ब्रवीत्वस्य ततो न दोषः ॥ ८८ ॥ यद्येवमेतस्य परत्वमेव प्रत्याययत्वत्र दुराग्रहः कः ॥ त्वयेव तस्य प्रतिभासशङ्का विद्वन्नविद्यावरणानिरस्ता ॥ ८९ ।। भोश्चेतनत्वेन शरीरिसाम्य मावेद्यतामस्य जगत्प्रसूतेः ॥ चिदुत्थितत्वेन परोदितस्या प्यणुप्रधानप्रभृतेर्निरासः ॥ ९० ॥ एतद्विकल्प्य दूषयति भगवान् । किमिति । तत्त्वमसीति वाक्यं किं चेतनत्वेन परेण सादृश्यं प्रवदति किं वा सौर्वज्ञसार्वात्म्यसर्वशक्तित्वप्रभृतिभिर्गुणैः साम्यं विवक्ति । अभाद्य चेतनत्वेन साम्यस्य प्रसिद्धत्वादुपदेशानर्थक्यम् । द्वितीये जीवस्य परमात्मस्व रूपापत्याऽभेदो नास्तीतिस्वसिद्धान्तविरुद्धता स्यात् । तस्मादैक्यप्रतिपादकमेवोक्तवा क्यमभ्युपेयमित्यर्थः । इन्द्रवत्रा वृत्तम् ॥ ८७ ॥ एवमुक्तो मण्डन आह । नित्यत्वमात्रेण परमात्मगुणसदृशैः सुखबेोधानन्त्यादिभिर विद्यावरणादमतीतैरस्य जीवस्य परेण साम्यमुक्तवाक्यं हे मुने ब्रवीतु तस्मान्नोक्तदोषः। उपजातिवृत्तम् ॥ ८८ ॥ एवमुक्तो भगवानाह । यद्येवं तर्हि तस्य जीवस्य परमात्मत्वमेवोक्तवाक्यं बोधय त्वत्र तस्य परत्व दुरामहः क । नन्वेवं तर्हि तस्य परत्वं कुतो न प्रतिभासत इति चेत्तत्राऽऽह । तस्य सुखबोधानन्तरूपस्य परत्वस्य प्रतिभासशङ्का त्वविद्यावरणारव यैव निरस्ता । विद्वान्सन्कथमेवं भाषस इति संबोधनाशयः ॥ ८९ ॥ एवमुक्तो मण्डनः प्रकारान्तरमालम्ब्याऽऽह हे यतीशास्य जगत्कारणस्य चेतन [ सर्गः ८ ] 'वैश्यसा'। २ क. "वैश्यसा'। ३ क. ख. घ. अथ । ४ ग. रवानङ्गीकार दु।