पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । तर्हि क्रियाजन्यतया विमुक्तिः स्वर्गादिवद्धन्त विनश्चरा स्यात् । उपासना कर्तुमकर्तुमन्यथा वा कर्तुमहाँ मनसः क्रियैव ।। ८५ ॥ [ सर्गः ८ ] तिसंबोधनेनाध्वरमीमांसानध्ययनं सूचयाति रात्रिसत्रे विधिः प्रकल्प्यते तद्वदिहाि ब्रह्मात्मैकत्वेऽपि मुक्तिफलश्रुतेः स विधिः कल्पयितुं युक्तः । अयमर्थः । ‘प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयान्ति' इति श्रूयते तत्र रात्रिशब्देनाऽऽयुज्योतिरित्यादिवाक्यावि हिताः सोमयागविशेषा उच्यन्तेऽत्र यद्यपि प्रतितिष्ठन्तीति वर्तमानापदेशात्सिद्धरूपैव प्रतिष्ठा प्रतीयते न साध्यरूपा तथाऽपि श्रुताया एव प्रतिष्ठाया विपरिणामेन फलक ल्पनस्यात्यन्ताश्रुतस्वर्गस्य फलत्वकल्पनांपेक्षया वरत्वाद्यत्तदोव्र्यत्यासेन योजनया प्रतितिष्ठन्तीत्यत्र सन्नर्थान्तर्भावेन च ये प्रतितिष्ठासन्ति त एता रात्रीरुपेयुरिति वाक्य विपरिणामेन यथा रात्रिसत्रे विधिः प्रकल्प्यते तथेहापि 'ब्रह्म वेद् ब्रचैव भवति' इति मुक्तिफलश्रुतेः'बह्म बुभूषुह्मवेदनं कुर्यात्' इति विधिः कल्पायेतुं युक्तः । तथाच ।

  • अभात्मा वा अरे द्रष्टव्यः'।'य आत्माऽपहतपाप्मा सोऽन्वेष्टव्यः स विजिज्ञासितव्यः'।

“आात्मेत्येवोपासीत ' । ‘आत्मानमेव लोकमुपासीत' । ‘ब्रो वेद बौव भवति' इत्यादिषु विधानेषु सत्सु को वाऽऽत्मा किं ब्रहोत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन नित्यः सर्वज्ञः सर्वे गतो नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म'इत्येवमादयः सर्वे वेदान्ता उपयुक्तास्तदुपासनाच शास्रदृष्टोऽ६ष्टमोक्षो भविष्यति । कर्तव्यविध्यननुपवेशे तु वस्तु मात्रकथने हानोपादानासंभवात् ‘सप्तद्वीपा वसुमती'राजाऽसौ गच्छति' इत्यादिवाक्य वद्वेदान्तवाक्यानामानर्थक्यमेव स्यात् । किंच वेदान्तानां प्रवृत्तिनिवृत्यबोधकत्वे शास्त्र त्वमेव न स्यात् । तत्परस्यैव शास्त्वबोधनात् । यथाऽऽहुः प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते' इति । अपिच रज्जुरियं नायं सर्प इत्यादिश्रवणेन यथा भयकम्पादि निवर्तते न तथा संसारित्वभ्रान्तिर्बह्मस्वरूपश्रवणेन निवर्तते । श्रुतब्रह्मस्वरूपस्य यथापूर्वं सुखदुःखादि संसारधर्मदर्शनातू । 'मन्तव्यो निदिध्यासितव्यः' इति श्रवणोत्तरकालयोर्मनननिदिध्या सनयोः श्रवणाचेति || ८४ ॥ एतदुपयाति भगवान् । तर्हि मोक्षस्योपास्तिरूपक्रियाफलत्वे सति विमुक्तिर्विनश्धरा स्यात्क्रियाजन्यत्वात्स्वर्गादिवदिति । अयमर्थः । कर्तव्यविविशेषत्वनाऽऽत्मोपदेशो

  • ख. ग. घ. 'पेक्षाया । २ ख. योजनेन

ख. न ये'। ४ क. 'त्रिवि'। ५ क. ह्मवि