पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ श्रीमच्छकरदिग्विजयः । दिने दिने चाधिगतप्रकर्षे भूरीभवत्पण्डितसंनिकर्षः ।। अन्योन्यभङ्गाहिततीव्रतर्ष स्तथाऽपि दूरीकृतजन्यमर्ष ॥ ७१ ॥ दिने दिने वासरमध्यमे सा ब्रते पतिं भोजनकालमेव । समेत्य भिक्षु समयं च भैक्ष्ये दिनान्यभूवन्निति पञ्चषाणि ॥ ७२ ॥ अन्यान्यमुत्तरमस्खण्डयता प्रगल्भ बद्धासनौ स्मितविकासिमुखारविन्दौ ॥ न स्वेदकम्पगगनेक्षणशालिनौ चा न क्रोधवाक्छलमवादि निरुत्तराभ्याम् ॥ ७३ ॥ अभास बभूव । विवादं विशिनष्टि । सदस्यैः सभ्यैर्विश्राणितो दत्तः साधुवादो यस्मै स स्वस्वपक्षे साक्षीकृताः सर्वे वेदौ यत्र स परस्परस्यापि कृतः प्रमोदः ग्रहषों येन । उपेन्द्रवज्रा वृतम् ॥ ७० ॥ पुनर्विवादं विशिनष्टि । दिने दिने चाधिगतः प्रकर्षों येन स भूरीभवतां पण्डितानां संनिकर्षः सांनिध्यं यस्य सोऽन्योन्यभङ्गेन विवदतोरन्तःकरण आहित स्थापितस्तषों जयाभिलाषो येन तथाऽपि दुरीकृतो जन्यमर्षों युद्धरोषो यस्मात्सः । ‘जन्यं हैट्टे परीवादे संयुगे जनके पुनः इति विश्धपकाशाः । उपजातिवृत्तम् ॥ ७१ ॥ सोभयभारती प्रतिदिनं मध्याद्वे समागत्य पर्ति भोजनकालमेव वक्ति भिक्षु श्रीशं करं भैक्ष्ये समयं च वदतीत्येवंप्रकारेण पञ्चषाणि पञ्च वा षड़वा दिनान्यभूवन् ॥७२॥ दृढतया बद्धमासनं याभ्यां तौ स्मितेन मन्दहसितेन विकासयुक्त मुखकमले ययोस्तौ यतिमण्डनौ मगल्भमुत्तरमन्यान्यमखण्डयता खाण्डतवन्त। पुनश्च स्वेदः प्रस्वेदो गगनेक्षणमुत्तरामतिभान आकाशं प्रति निरीक्षणं स्वेदकम्पगनेक्षणशालिनौ न बभूवतुर्न वा निरुत्तराभ्यां क्रोधेन वाक्छलं क्रोधवाक्छलमवादि कथितम् । वसन्त तिलका वृत्तम् ।। ७३ । [ न स्वेदेति । स्वेदकम्पौ सात्विकविकारौ । तदुक्तम् । स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवण्र्यमश्रुप्रलय इत्यष्टौ सात्विकाः स्मृताः’ इति] ।। ७३ ।। १ ग. 'स्मै स्वस्तप'। [ सर्गः ८] २ क. ग. घ. 'दा येन स । ३ ग. ह्रदे ।