पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आदर्शपुस्तकोलेखपत्रिका । अस्य शंकरदिग्विजयंस्य पुस्तकानि यैः परहितैकतानतया संस्करणार्थ मदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते । (क.) इति संज्ञितम्-मूलं डिण्डिमाख्यटीकासमेतं * गणपतकृष्णाजी ' इत्येतस्य मुद्रणालये मुद्रितं, आनन्दाश्रमस्थम् । मुद्रणकालः शके १७८६ ॥ ( ख.) इति संज्ञितम्-मूलं डिण्डिमाख्यटीकासमेतंचतुर्दशसर्गपर्यन्तमपूर्ण, दक्षिणापथवर्तिविद्यालयग्रन्थसंग्रहगृहस्थं 'डॉक्टर' इत्युपपदधारिभिर्भाडारकरोपाद्वै रामकृष्ण गोपाल इत्येतैर्दत्तम्। पत्राणि २०८। एकपत्रस्थपङ्किसंख्या २८ । एकपङ्किस्थानामक्षराणां संख्या ४९ । लेख नकालस्तु चत्वारिंशत्संवत्सरमित इत्यनुमीयते । ( ग.) इति संज्ञितम्-मूलं डिण्डिमाख्यटीकासमेतं ‘रानडे' इत्युपाख्यानां पुण्यपत्तननिवासिनां रा. रा. ‘बंडुनाना' इत्येतेषाम् । पत्राणि २७२। पङ्कय: ३२ । अक्षराणि ३९ । लेख नकालः शके १७५७ । (घ.) इति संज्ञितम्-मूलं डिण्डिमाख्यटीकासमेतं रन्नागिरीनिवासिनां

  • आठल्ये' इत्युपाह्वानां रा. रा. 'वासुदेव हरी'

इत्येतेषाम् । पत्राणि १९३। पङ्कयः ३४। अक्षराणि ४१ । लेखनकालत्रिंशत्संवत्सरांमत इत्यनुमीयते । अद्वैतराज्यलक्ष्मीटौकायाः पुस्तकं वे० शा० रा.रा. ‘साठे' इत्युपादैः पुण्य पत्तननिवासिभिर्नारायणशास्त्रिभिः केवलं परहितैकपरायणमनीषयैव प्रदत्तम् । तदन्तर्गतविशेषविभानां टिप्पण्यप्यत्र सङ्कलिताऽति । समाप्तमिदं सूचीपत्रकम् ।