पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ झर्गः ८] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः ॥ इति श्रीमाधवीये तद्याससंदर्शचित्रगः ॥ संक्षेपशंकरजये सर्गेऽसौ सप्तमोऽभवत् ॥ ७ ॥ अथाष्टमः सर्गः । अथ प्रतस्थे भगवान्प्रयाग तन्मण्डनं पण्डितमाशु जेतुम् ॥ गच्छन्स्वस्त्या पुरमालुलोके माहिष्मतीं मण्डनमण्डितां सः ॥ १ ॥ अवातरद्रत्नविचित्रवमां विलोक्य तां विस्मितमानस्रोऽसौ ।। पुराणवत्पुष्करवर्तनीतः पुरोपकण्ठस्थवने मनोज्ञे ॥ २ ॥ [इति श्रीति। तदिति । संदर्शनं संदश व्यासस्य संदश व्याससंदर्शस्तस्य श्रीभा जयकारस्य यो व्याससंदर्भस्तदेव चित्रं तत्र विषये गच्छति प्रतिपादकतया पर्यवस्य तीति तथेत्यर्थः] ॥ २२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यद तवंशावतंसरामकुमारसूनुधनपतिसूरिकृते श्रीशंकराचार्यवि जयडिण्डिमे सप्तमः सर्गः ॥ ७ ॥ अथाष्टमसर्गस्य टीका । नमः झार्वाय शान्ताय विमुक्ताय जटादिभिः । निरस्तवाममार्गाय यतीन्द्राय कृपालवे ॥ एवं व्यासदर्शनादिकं निरूप्याऽऽचार्यमण्डनसंवादं सपरिकरं वर्णयितुमुपक्रमते । अथ भट्टपादं ब्रह्मोपदिश्य तस्य वैष्णवपदमाझेरनन्तरं स भगवान्योगीन्द्रो मण्डैनं पण्डिवं जेतुं शीमं मयागातीर्थराजत्पतस्थे मस्थानं कृतवान् । तत आकाशमार्गेण गच्छन्स मण्डनेन मण्डितामलंकृतां माहिष्मतीं पुरं तन्नामकं नगरमालुलोक आसमन्ता दवलोकितवान् । उपजातिवृत्तम् ॥ १ ॥ [मण्डनेति । मण्डनेन मण्डनमिश्रारूयप ण्डितेन पक्षे रङ्गध्वजपताकादिसौधादिस्थावरभूषणेन वस्रालंकाराङ्गरागादिनागरिकनर नायौदिजङ्गमभूषणेनेति यावत् । मण्डितां भूषितामित्यर्थः ] ॥ १ ॥ रत्नविचित्रवमां विचित्ररत्नैहरकादिभिर्विचित्रा वमा अट्टालिका यस्यां तां माहि २९ १ ग. ‘गात्तं म'। १ ख. ग. घ 'uडनप'। ३ ख. 'जात्प्रस्था '।