पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ७] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । निवृत्तिशास्त्रे नकृतादरः स्वयं केनाप्युपायेन वशं स नीयताम् ॥ वशं गते तत्र भवेन्मनोरथ स्तदन्तिकं गच्छतु मा चिरं भवान् ॥ ११५ ।। उंवेक इत्यभिहितस्य हि तस्य लोकै रुंवेति बान्धवजनैरभिधीयमाना ॥ हेतोः कुतश्चिदिह वाक्सुरुषाऽभिशप्ता दुर्वाससाऽजनि वधूर्द्धयभारतीति ।। १६ ।। सर्वामु शास्रसरणीषु स विश्वरूपो मत्तोऽधिकः प्रियतमश्च मदाश्रवेषु । तत्प्रेयसीं शमधनेन्द्र विधाय साक्ष्ये वादे विजित्य तमिमं वशग विधेहि ॥ १७ ॥ २९३५ किंच निवृत्तिशास्त्रे नकृतादरः स्वयं तस्मात्स मण्डनः केनाप्युपायेन वशं नीयतां तत्र तस्मिन्वशं प्राप्त भवन्मनोरथो भवेदतस्तत्समीपं शीघ्र भवान्गच्छतु । उपजाति वृत्तम् ॥ १५ ॥ उंवेक इति लोकैरभिहितस्य तस्य मण्डनस्य वधूरुंवेति बान्धवजनैरभिधीयमाना कुतश्चिद्धेतोर्वाक्सरस्वती दुर्वाससा सुरुषाऽभिशप्ता द्वयभारतीत्यजनि प्रादुर्भूता । एतेन उंवेक' 'उंवा' इनि मण्डनसरस्वत्योः प्राकृतं नाम कथितमिति बोध्यम् । वसन्त तिलका वृत्तम् ॥ १६ ॥ [अथ लौकिकं तस्य तृतीयं नाम तद्भायायाश्च नाम कथय स्तस्याः सरस्वत्यवतारत्वं वक्ति । * अम्बेक इतीत्यादिवमन्ततिलकया। अम्बया जग न्मातृभूतसरस्वत्यवतारत्वादम्बाख्यया वक्ष्यमाणोभयभारत्यभिधधर्मपत्न्या सह ए: कामस्य कं सुखमिकं तद्यस्य सोऽम्बेक इत्यर्थः ] ॥ ११६ ।। किंच सर्वासु शास्त्रसरणीषु स विश्धरूपो मत्तोऽधिको मदाश्रवेषु मम शिष्येषु मध्ये मियतमश्च तस्माद्धे शामधनेन्द्र तस्य प्रेयसीमतिशयेन प्रियां सरस्वतीं साक्ष्ये विधाय तमिमं विश्धरुपं वादे विजित्य वशगं विधेहि ॥ १७ ॥ [ साक्ष्ये माध्यस्थ्ये]॥१७॥

  • एतेन मूल उंवेक इत्यत्र लोकैरुवतीत्यत्र च यथाक्रममम्बेक इति लोकैरम्बेतीति च पाठो

ज्ञायते । अग्रेऽष्टमसर्गे ६६ श्रेोके ‘अम्बामुदारधिषणाम्’ इति बहुपाठानुरोधेन चायभव युक्ततर इति भ.ति । आदर्शपुस्तकेषु तु नायमुपलभ्यते ।

१ ख. उंबेक । २ ख. *रुंबेति । ३ ख. उंबेक । ४ ख. 'रुंवेति । ५ ख. “उँबेक” । ६ ख. ॐबा' इ'।