पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्मः ७] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । मध्येतुमाश्रितजलां कुहचिन्मरालेः । चक्रद्धयेन रजनीसहवाससौख्य संशीलनाय किल संवलितां परत्र ॥ ६५ ॥ यत्राऽऽपुता दिव्यशरीरभाज आचन्द्रतारं दिवि भोगजातम् ॥ संभुञ्जते व्याधिकथानभिज्ञाः माहेममर्थ श्रुतिरेव साक्षात् ॥ ६६ ।। अज्ञातसंभवतिरोधिकथाऽपि वाणी यस्याः सितासिततयैव गृणाति रुपम् ॥ भागीरथीं यमुनया परिचर्यमाणा मेतां विगाह्य मुदितो मुनिरित्यभाणीत् ॥ ६७ ॥ कुहचित्कचिदमलकान्तिलक्षणं संप्रदायमध्येतुं समीपे वसद्भिः शिष्यैर्मरालैर्हसैरा श्रितं जलं यस्यास्तां परत्रान्यत्र नलिनीसहवासलक्षणसैौख्यसंशीलनाय चक्रद्वयेन . संव्याप्तां भागीरथीं विगाहेति व्यवहितेनान्वयः । 'रजनी नलिनीरात्रिहरिद्राजतुकासु च' २७९ इति मेदिनी । वसन्ततिलका वृत्तम् ॥ ६५॥ [चक्रेत्यादि । चक्रवाकामिथुनेन । रजनीति । रात्रिसंयोगसुखसंपादनार्थमित्यर्थः ] [ यमुनायाः कृष्णवर्णत्वेन तत्र चक्रवाकमिथुनस्य रात्रिसंमेलनसुखानुभवसंपादनहेतुकावस्थानोत्प्रेक्षणमुचितमेवेति भावः ] ॥ ६५ ॥ तामेव वर्णयति । यत्र यस्यां यमुनया संगतायां गङ्गायामाछुता दिव्यशरीरभाजः पुनश्च व्याधिकथानभिज्ञाः सन्तो दिवि भवं भोगसमुदायं सम्यग्भुञ्जते । नन्वत्र किं माणमिति चेत्तत्राऽऽह । इममथै साक्षाछूतिरेव प्राह । तथाच श्रुतिः । 'सितासिते सरिते यत्र संगते तत्राऽऽश्रुतासो दिवमुत्पतान्ति' इत्याद्या । इन्द्रवज्रा वृत्तम् ॥६६॥ किंच वाणी श्रुतिरप्यज्ञाता संभवस्य जन्मनस्तिरोधेस्तिरोधानस्य च कथा यया सा यस्या यमुनया संगताया गङ्गायाः सितासिततयैव रूपं वर्णयति । तथाभूतामेतां यमुनया परिचर्यमाणां भागीरथीं विगाह्य मुदितो मुनिः श्रीशंकर इति वक्ष्यमाणमभा णीदुक्तवान् । वसन्ततिलका वृत्तम् ॥ ६७ ॥