पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० श्रीमच्छकरदिग्विजयः । इति स्तुतस्तेन यथाविधान मासेदिवान्विष्टरमात्मनिष्ठः ।। द्वैपायनः प्रश्रयनम्रपूर्व कायं यतीशानमिदं बभाषे ॥ ३२ ॥ त्वमस्मदादेः पदवीं गतोऽभू रखण्डपाण्डित्यमबोधयं ते ॥ श्रुकर्षिवत्मीतिकरोऽसि विद्व न्पुरेव शिष्यैः सह मा भन्नमीस्त्वम् ॥ ३३ ॥ कृतं त्वया भाष्यमितीन्दुमौलेः सभांकणेसिद्धमुखान्निशम्य ॥ हृदा महृष्टेन दिदृक्षया ते दृगध्वनीनः प्रशमिन्नभूवम् ॥ ३४ ॥ इत्थंमुनींन्द्रवचनश्रवणोत्थहर्ष रोमाञ्चपूरमिषतो बहिरुत्पुवन्तम् ।। [ सर्गः ७ ] श्रीशंकरः शुकमतार्णवपूर्णचन्द्रः ॥ ३५ ॥ परमात्मेत्यन्तं लक्ष्यार्थमतिपादनं नारायणः सर्वान्तर्यामी' तत्पदवाच्यार्थः । पुरि शयनात्पुरुषस्त्वंपदवाच्यः। पुराणत्वमनादित्वमुभयोर्विशेषणम् । उपजातिवृत्तम् ॥३१॥ इत्येवं मकारेण तेन श्रीशंकरेण स्तुत आत्मनिष्ठो द्वैपायनो वेदव्यासो यथाविधा नमासन आसेदिवानुपविष्टवान् । ‘भाषायां सदवसश्रुवः’ इति कसुः । प्रश्रयेण नम्रः पूर्वकायोऽग्रभागो यस्य तं यतीशामिदं वक्ष्यमाणमुवाच ॥ ३२ ॥ यदुवाच तदाह । अस्मदादेः पदवीं त्वं गतोऽभूः पूर्वमेव प्राप्तः । तेऽखण्डपाण्डि त्यमबोधयं ज्ञातवानस्मि स्वपुत्रवत्प्रीतिकरोऽसि यतो विद्वस्तस्माद्यं वादायाऽऽगत इति शिष्यैः सह त्वं पूर्वं यथा भ्रमं माप्तस्तथा मा भ्रमभ्रमं मा गाः । उपेन्द्रवज्रा वृत्तम् ॥३३॥ त्वया भाष्यं कृतमिति शिवस्य संबन्धी सभांकणेसंज्ञः सिद्धस्तस्य मुखाच्छूत्वा प्रहृष्टेन हृदा तव दर्शनेच्छया हे प्रशस्तेि नेत्रपथचरोऽहं जातोऽस्मि ॥ ३४ ॥ एवंभूतस्य मुनीन्द्रस्य वेदव्यासस्य वचनस्य श्रवणादुत्थितं रोमाञ्चपूरव्याजेन बहिरुत्सुत्य गच्छन्तं हर्ष धारयञ्शुकाचार्यमतलक्षणसमुद्रप्रवर्धने पूर्णचन्द्रः श्रशिकरो नवमेघकान्तिमनल्पशाक्त तं श्रीव्यासमाख्यत्प्रोक्तवान् । वसन्ततिलका वृत्तम् ॥ ३५ ॥ १ ग. "भांकरोसि'। घ, 'भांगणे'। २ क. ख. 'नीन्दुव'। ३ ग. मीति त'। ४ ग. 'भांकरोसि'।