पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ श्रीमच्छकरदिग्विजयः । आभासयन्नन्तरमङ्गमान्ध्य स्थूलं च सूक्ष्मं बहिरन्तरं च ॥ अपानुदन्भारतशीतरश्मि रभूदपूर्वो भगवत्पयोधेः ॥ २७ ॥ वेदाः षडङ्गं निखिलं च शास्त्रं महान्महाभारतवारिराशिः ।। त्वत्तः पुराणान च सबभूवु सर्वे त्वदीयं खलु वाङमयाख्यम् ।। २८ ॥ द्वीपे कचित्समुदयनृतमेवधाम शाखासहस्रसचिवः शुकसेव्यमानः । उछासयत्यहह यस्तिलको मुनीना मुचै:फलानि सुदृशां निजपादभाजाम् ।। २९ ।। [ सर्गः ७ ] अन्तरमङ्गं सर्वान्तरमात्मानमष्टमूर्तिशिवावयवं तच्छरीरं वाऽऽभासयन् । स्थूलं कार्ये सूक्ष्मं कारणं बहिर्जगन्मिथ्यात्वाज्ञानमन्तरं प्रत्यगभिन्नपरमात्माज्ञानमान्ध्यं तमोऽ पानुदन्भारतलक्षणोऽपूर्वश्चन्द्रो भगवत्पयोधेस्त्वत्तः क्षीरसमुद्रादभूत् । प्रसिद्धचन्द्रस्तु बाह्य शिवशरीरं तच्छिरोलक्षणावयवं वा प्रकाशयन्स्थूलं बाह्य तमो नाशयति । यद्वा बहिः स्थूलं कार्यरूपमन्तरं सूक्ष्मं कारणरूपमथवा स्थूलमर्थाज्ञानं सूक्ष्मं धर्माज्ञानं बहि कामाज्ञानमन्तरं मोक्षाज्ञानमित्यर्थः । उपजातिवृत्तम् ॥ २७ ॥ २८ ॥ [ वेदा इति । षडङ्गं षण्णां शिक्षाद्यङ्गानां समाहारः षडङ्गम् । वेदानां व्यासत संभवस्तु यद्यपि साक्षात्रैव तथाऽपि तद्विभक्तत्वेनैव बोध्यः । षडङ्गस्य तु पाणिन्यादितत्तन्मुनिप्रणीतत्वेऽपि व्यासेनाऽऽदृत्याध्यापितत्वादिनैव तथात्वं ध्येयम् । एवमेव निखिलशास्त्रेऽपि बोध्यम् । वारिराशिरूपकेणैव महाभारते वैपुल्ये शाब्दिके महत्पदकर्मधारयेणाऽऽर्थिके च सिद्धे महानिति विशेषणं तु श्रीमद्भगवद्रीतादिशास्त्र वत्वेन परमपूज्यत्वार्थमेवेति भावः । एवं सर्वमित्यत्राप्यङ्गादिन्याय एव ज्ञेयः] ॥२८॥ द्वैपायननिरुक्ति वृक्षरूपकेणाऽऽह । ऋतमेव धाम सत्यस्वप्रकाशरूपं परब्रलैव कचिद्वीपे समुदयैन्वेदशाखानां सहस्र सचिवो यस्य शुकेन सेव्यमानः कल्पवृक्षरुपी यो मुनीनां तिलकः सुदृष्टीनै स्वायचरणभाजामुचैः फलान्युत्कृष्टानि मोक्षादिरूपाणि फलान्युलासयति । अहहेत्यत्याश्चर्येऽतिप्रसिद्धंौ वा । स त्वम् । तदृतं धामैवेति वा । इन्द्रवज्रा वृत्तम् ॥ २९ ॥ [यः कचिद्वीपे समुदयन्सम्यगाविर्भवन्नित्युभयत्रापि । यमु १ घ.'यञ्शाखासहस्रस्थानीयं वेद'। २ घ. यस्यैकतः शुकपक्षिस्थानीयेन शु'। ३ घ. रूपो यो। ४ ग. 'नां स्वच'।