पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । यया दीनाधीना घनकनकधारा समरचि प्रतीतिं नीताऽसौ शिवयुवतिसौन्दर्यलहरी ॥ भुजंगो रौद्रोऽपि श्रुतभयहृदाधायि सुगुरो र्गिररां धारा सेयं कलयति कवेः कस्य न मुदम् ॥ ९३ ॥ २५१ किंचिन्मिथ्यात्वसिद्धश्यर्य मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वश्येद्वेश्यां खाब्जस्रज्जं वहन् इति । तथाचेह श्रीमद्भाष्यकारग्रन्थसदृशाग्रन्थरचनं मिथ्यैवेलेयेतस्यार्थस्य सिद्धयर्थ मिथ्याभूतस्य कुल्यायाः सुरसरित्तरङ्गविरचने साम्यस्य कल्पनालक्षणसमन्वयः । परिकरालंकारस्तु स्फुट एव ] || ९२ ।। यया गिरां धारयाऽऽमलात्मकनकधारा दीनाधीना समरवि सम्यग्रचिता यया च शिवयुवतिसौन्दर्यलहरी प्रतीतिं नीता प्रकटिता रौद्रोऽपि भुजंग : सर्पः श्रुतेन भयहृदाधायि कृत: प्रसिद्धं च शंकरनामाङ्कितप्राकृतमश्रस्य सर्पविषहारित्वं सेयं सुगुरोः श्रीशंकरस्य गिरां धारा कस्य कवेर्मुदं न कलयति किंतु सर्वस्यापि मुदं प्रय च्छतीत्यर्थः ॥९३॥ [ शिवेति । गौरीस्तुतिरूपा ‘शिवः शक्त्या युक्तः' इत्यादिः ] [ रौद्रो रुद्रस्य शिवस्यायं रौद्र । एतादृशः । भुजंगो भुजंगप्रयाताख्यप्रसिद्धवृत्तवि शेषघटितः शिवभुजंग इति लोके प्रसिद्धः स्तोत्रविशेष इति यावत् । यद्वा न भूमिर्न तोयं न तेजो न वायुः इत्यादिभुजंगप्रयातवृत्तघटिता मधुसूदनसरस्वतीकृतसिद्धान्तबिन्द्वाख्यटीकामूली भूता दशश्लोक्येव तथा । तस्या एव श्रुतमात्रेणाधिकारिभयहारित्वाच्छिवपदघटि तत्वाच । सोऽपि । श्रुतेति । श्रुतेन श्रवणमात्रेणैवाधिकारिणां भयं हरतीति तथा । एतादृशोऽप्यत्यदुतोऽप्याधाय रचित इत्यर्थः । ननु प्रकृता हि काशीपुरस्थजनाना मेव बदरिकाश्रमस्थश्रीशंकराचार्यविरचितसूत्रभाष्यादिकीर्तिश्रवणेन तद्वाग्वैभवविस्मय वर्णनोक्तिः सौन्दर्यलहरीस्तोत्रं तु तेन वक्ष्यमाणद्वादशसर्गे मृकाम्बादर्शनोत्तरं कृतमिति मृल एव समपञ्च सूचयिष्यति । तथा च शिवभुजंगस्य काश्या मेव शिवदर्शनोत्तरं कृतत्वसंभवेन तेषां तत्प्रसिद्धावप्यक्तशक्तिस्तोत्रस्याद्याप्यकृतत्वात्तत्कालावच्छेदेन कथं तेषामर्सवज्ञानां भविष्यतस्तस्य ज्ञानमिति चेद्वाढम् । तेषां तत्कालावच्छेदेनानुत्प त्रस्य तस्य ज्ञानाभावेऽपि माधवाचार्यस्य प्रकृतग्रन्थकर्तुस्तज्ज्ञानसत्त्वात्तद्वचांस्यनु वदतोऽस्य श्रीमद्भाष्यकारपादारविन्दभक्तिरसाविष्टचेतस्त्वेम निरुक्तानुवादित्वाननुसं धानादेव तथोक्तिबाँध्या । तदनुसंधानाभावस्त्वस्य कवेः मछते ‘रतिर्देवादिविषया' व्यभिचारी तथाऽश्चितः'।'भावः प्रोक्तः' इत्यादिकाव्यप्रकाशाकारिकोक्तभावध्वनित्वप रिपोषकत्वादुण एवेति दिकू ] ॥ ९३ ॥