[ सर्गः ६ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मोहसंतमसवासरनाथां स्तत्र तत्र विनिवेश्य विनेयान् ॥ मामुपैष्यसि ततः कृतकृत्यः ॥ ५१ ॥ एवमनमनुगृह्य कृपावा नागमैः सह शिवोऽन्तरधत्त । विस्मितेन मनसा सह शिष्यैः शंकरोऽपि सुरसिन्धुमयासीत् ॥ ५२ ॥ संनिवृत्य विधिमाह्निकमीशं ध्यायतो गुरुमथाखिलभाष्यम् ॥ कर्तमद्यतमभद्रणसिन्धो मनसं निस्विल लोकहिताय ॥ ५३ ॥ कर्तृत्वशक्तिमधिगम्य स विश्वनाथा त्काशीपुरान्निरगमत्वविकासभाजः । प्रीतः सरोजमुकुलादिव चश्चरीक निर्बन्धत: मुस्वमवाप यथा द्विजेन्द्रः ॥ ५४ ॥ पृथिव्यामद्वयमते परतत्वं रूयापयाद्वयबुद्ध इति संबोधनं परतत्त्वं परब्रह्मतत्त्व मिति वा ॥ ५० ॥ किंच मोहलक्षणसंतमसभानूञ्शिष्यांस्तस्मिस्तस्मिन्देशे परतत्त्वसरण्याः पालनाय संस्थाप्य तदनन्तरं कृतमवतारकृत्यं येन स मामुपैष्यपि ।। ५१ । [ मोहेति । मोहोऽज्ञानमेव संतमसं ‘विष्वक्संतमसम्’ इत्यमरादतिपसृततिमिरमित्यर्थः ] ॥ ५१ ॥ एवमेनं श्रीशंकरमनुगृह्य कृपावाञ्शिवो वेदैः सहान्तर्धानमगात् । शंकरोऽपि विस्मययुक्तेन मनसा शिष्यैः सह स्वर्णदीं गङ्गां प्रत्यगच्छत् ॥ ५२ ॥ आह्निकविधिं संनिवृत्य गुरुमीशं महादेवं ध्यायतो गुणसमुद्रस्य श्रीशंकरस्य मानसं सर्वलोकहिताय सम्यगुर्धतमुद्युक्तमभूत् ॥५३॥ [ अखिलभाष्यं सूत्रभाष्यादि षोडशभाष्यनिकुरम्बम् । निखिलेति । सर्वजनजीवन्मुक्त्याद्यर्थम् ] ॥ ५३ ॥ स विश्धनाथात्कर्तृत्वशक्ति प्राप्य प्रीतः सन्नविकासभाजः काशीपुरान्निरगमत् । चश्वरीकनिर्बन्धतो गन्धलुब्धभ्रमरनिर्बन्धनरूपात्सरोजमुकुलादिवेति पूर्णोपमा यथा पक्षिणमिन्द्रो हंसो निर्गत्य सुखमाओोति तथाऽयं ब्राह्मणेन्द्रः सुखं माप । प्रत्यवयव २३९
- ख. 'त्वं परं यथार्थ ख्या"। २ क. ग. "नं वा । ३ ख. घ. ‘द्यमयुक्त'।