पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६६
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


तदनु सन्यसन्न मनसा व्यधा
दथ मुमोच शिशु स्वलनक्रकः ॥
शिशुरुपेत्य सरित्तटमत्रस
न्प्रसुवमेतदुवाच श्रुचाऽऽवृताम् ॥ ६७ ॥
मातर्विधेयमनुशाधि पदन्न कार्य
संन्यासिना तदु करोमि न संदिहेऽहम् ।।
वस्राशने तव यथेष्टममी पदेयु
ह्नन्ति ये धनमिदं मम पैतृकं यत् ॥ ६८ ॥
देहेऽम्ब रोगवशगे च सनाभयोऽमी
द्रक्ष्यन्ति शक्तिमनुसृत्य मृतिप्रसङ्गे ॥
अर्धग्रहाजनभयाञ्च यथाविधानं
कुर्युश्च संस्कृतिममी न विभेयमीषत् ॥ ६९ ॥




 तस्या मातुरनुमतेः पश्चाच्छूीशंकरो मनसा संन्यसनं व्यधादथ संन्यसनानन्तरं
दुष्टजलचरः शिशु मुमोच । संसाराख्येनाज्ञानजलचरेण दुष्टनक्रेण गृहीतस्य संन्यासं
विना न मोक्ष इत्याशयः । ततः किं वृत्तमित्यपेक्षायामाह । शिशुरत्रसन्नदीतटमुपेत्य
शोकेन व्याप्तां जननीमेतद्वक्ष्यमाणमुवाच ॥ ६७ ॥ [मनसा संन्यसनं व्यधाचकारे
त्यन्वयः ‘यद्यातुरः स्यान्मनसा वाचवा वा संन्यसेतू’ इत्याम्रायत एव । रवलेति ।
दुष्टनक्रकः ] [ अत्रसन्नेव दुःखमननुभवन्नेवेत्यर्थः । एतेनोक्तग्राहग्रदादेर्मायिकत्वं
व्यज्यते ] [ मसुवं 'जनयित्री मसूर्माता' इत्यमराजनीम् ] ॥ ६७ ॥
 यदुवाच तदाह । हे मातर्विवेयमाज्ञापयात्रास्मिलोके यत्संन्यासिना कर्तु योग्यं
तन्निश्चयेन करोमि नाहं संदिहे संशययुक्तो न भवामि। ननु संन्यासिना संग्रहशून्येन
त्वयाऽकर्तव्यं भोजनाच्छादनप्रदानं कः करिष्यतीति चेत्तत्राऽऽह । वत्रेति । ये
धनमिदं गृह्णन्त्यमी वस्राशने तव यथेष्टं मदेयुर्यद्यस्माद्धनं मम पितृसंबन्धि तस्मादि
त्यर्थः। यन्मम पैतृकं वदिदमिति वा । वसन्ततिलका वृत्तम् ॥६८॥ [ ननु विवाहा
देवदाज्ञापितमपि त्वया नैवानुष्ठितं चेकि मदनुशासनफलमित्याशङ्कां प्रत्याह ।
तदित्यादिपूर्वार्धशेषेण । ‘उ:' अवधारणे ॥ ६८ ॥
 ननु संन्यस्य त्वयि गते रोगावीने मद्दे सति मरणप्राप्तौ च के द्रक्ष्यन्तीति
चेत्तत्राऽऽह । देह इति । हे मातस्तव देहे रोगवशेंगे च पुनर्मरणप्रसक्तावमी सनाभय
सापण्डाः शक्तिमनुसृत्य दर्शनं करिष्यन्ति मरणानन्तरं दाहादिसंस्कारं यथाविधानं
कुर्युस्तत्र हेतुद्वयमाह । अर्थस्य मम पैतृकधनस्य ग्रहणाज्जनानां भयाच । तस्माद


१ ग. घ. 'शगेऽमी । २ ग. 'रणप्रसक्तौ दा"। घ, 'रणप्रसक्तौ च दा'। ३ ख. ग. घ. दण्वपि ।