पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४४
श्रीपाञ्च​रात्ररक्षा

तृतीयमपराध तु कल्पयामि वसुन्धरे ।
दृष्ट्वा तु मृतक देवी यस्तु मामुपसर्पति ॥
चतुर्थमपराध तु न क्षमामि वसुन्धरे ।
म्पृष्टवा [१] रजम्वला नारी यस्तु मामुपसर्पति ॥
पञ्चम त्वपराध च दृष्ट्वा वै न क्षमाम्यहम् ।
स्पृष्ट्वा तु मृतक चैव सस्कार मृतकस्य वै ॥
अपराधमिम षष्ठ न क्षमामि वसुन्धरे ।
ममार्चनविधौ काले वात मुञ्चति निर्घृण ॥
सप्तमश्चापराधोऽय मम देवि न रोचते ।
ममैवार्चनकाले तु पुरीष यस्तु मुञ्चति ॥
अष्टमश्चापराधोऽय ममात्र तु न रोचते ।
मदीयार्चनकाले तु यो हि वाचा प्रभाषते ॥
नवम चापराध तु न क्षमामि वसुन्धरे ।
यस्तु नीलेन वस्त्रेण प्रावृतो मा प्रपश्यति ॥
दशमश्चापराधोऽयं मम देवि न रोचते ।
परिधायैकवस्त्र च यस्तु वै मा प्रपद्यते[२]
एकादशापराधस्तु मम विप्रियकारणम् ।
क्रुद्धस्तु यश्च कर्माणि कुरुते कर्मकारक ॥
द्वादश चापराध तु कल्पयामि वसुन्धरे ।
अकर्मण्यानि पुष्पाणि यस्तु मामुपकल्पयेत् ॥
त्रयोदशापराध तु न क्षमामि वसुन्धरे ।
यस्तु रक्तेन वस्त्रेण कौसुम्भेनाधिगच्छति ॥

  1. दृष्टा---क, ख, ग, च, झ
  2. प्रपश्यति---क, ख, ग, च, झ