पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३
तृतीयोऽधिकारः

 तद[१] यमपवर्गाड्कुरभूतस्वयप्रयोजनस्वामिकैङ्कर्यमहानन्दलाभ ’विघ्ना

निर्विन्नकैङ्कर्यसिद्धि-
प्रार्थनम् ।

युतेन गोविन्दं नृणा भक्तिर्निवार्यते' इति कथ भविष्यतीति भयात् अनन्तरं प्रतिबन्धकनिवृत्ति प्रार्थ्यते [२]--

एतत्क्रियाविरोधीनि प्राचीनान्यशुभानि मे ।
कर्माण्यजन्तान्यच्छेद्यान्यनादीन्यशुचीन्यपि ॥
स्वयैव कृपया देवो विनाश्यास्मन्मनोरथान् ।
पूरयत्विति संप्रार्थ्य मन्त्रमेतमुदीरयेत् ॥ इति ।

स च प्रार्थनामन्त्र त्वय्याराधनकामोऽयम्' इत्यादिको यथान्याय दशिकसकाशादधीत्यात्रान्वह प्रयोक्तव्य । एवमेव हि सर्वेषा मन्त्राणा समाधि । विपर्यये हि नैष्फल्य दृष्टादृष्टप्रत्यवायश्च तेषु तेषु शास्त्रेषु पठ्यते ----

'यदृच्छया श्रुतो मन्त्रश्छन्नेनाथ छलेन वा ।
पत्रेक्षितो वा व्यर्थ स्यात् प्रत्युतानर्थदो भवेत् ॥ ’' इति ।

निर्विघ्नकैङ्कर्यसिद्धये
गुरुपरम्पराप्रपत्ति
पूर्वकहरिध्यानम् ।

अस्यैव श्लोकस्यान्यत्र 'त जपेद्यद्यनर्थकृत्' इति चतुर्थपादस्य पाठ ।

 एवविधनिर्विघ्नकैङ्कर्यसिद्धिरपि,

"सङ्कल्पादेव भगवास्तत्त्वतो भावितात्मनाम् ।
वृत्तान्तमखिलं काल सेचयत्यमृतेन तु ॥ ’’

  1. यदय- क, ख, ग, झ
  2. कथ्यते- क, ख, ग, झ