पृष्ठम्:श्रीपरात्रिंशिका.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

च्यते । यदुक्तं श्रीसोमानन्दपादैः

.................... [१] अपरस्थितो,
सा बुद्धिर्यत्पुनः सूक्ष्मं सर्वदिक्कमवस्थितम् ।
ज्ञानं बोधमयं तस्य शिवस्य [२]सहजं सदा॥

इति । भागो भेदः स यत्र अस्ति रूपे इति मत्वर्थीयाकारप्रत्ययान्तेन भागशब्देन विभक्तं रूपमुच्यते । विभक्ते च वपुषि परिच्छेदोऽन्योन्यव्यवच्छेदेनैव भवति इति प्रसादात्मकविषयनिश्चयो बुद्धावुपजायमानोऽ[३]पररम्यारम्यादिविश्ववर्तिनो भावान् अस्पृशन्नेव,


पं० ३ ग० पु० दिक्कं व्यवस्थितमिति पाठः ।
पं० ९ क० पु० बुद्धौ जायमानोपरीति पाठः ।



  1. अत्र कैश्चिदित्थं विकल्पितं,-निर्विमर्शः शुद्धः प्रकाश इति, सविमर्शत्वे हि सविकल्पत्वमापतेत्, तथाहि जानातीति ज्ञानं बोधो बुद्धिवृत्तिः कथं वृत्तिमतीं बुद्धिं विना स्यात्, इतो बुद्धिः प्रकृतेः प्रजाता जडा, न च तया तस्य शिवतत्त्वस्य संबन्ध इति, तथा चोक्तं पूर्वपक्षव्यवस्थायां श्रीमम्सोमानन्दपादैः

    'बुद्धिं विना कथं बोधः सा बुदिः प्रकृतेः प्रजा ।
    न च तस्य तया योग इति चेत.........॥'

    इति । अत्रान्यैरित्थमुत्तरो दत्तः,-अपरावस्थायामख्यात्युल्लसितेषु भिन्नेषु भावेषु बुदिरुच्यते अभेदे तु चिन्मये बोधोऽस्य सहज इति । अत्रायं पुनस्तात्पर्यार्थः, - पुर्यष्टकप्रमातॄणां बुद्धिः पूर्णप्रमातृतायामबोध्यरूपं बोधमात्रमिति, ज्ञानकालेऽपि शिवसत्तास्तीति दर्शितम् ।
  2. प्राकृतबुद्ध्युल्लासेऽपि तत्सद्भावात् तद्विना तदभावात् ।
  3. अपर इति भिन्नः।