पृष्ठम्:श्रीपरात्रिंशिका.pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
परात्रिंशिका

नां यत् यत् अनुप्रविशति तत्तत् मध्यनाडीभुवि सर्वाङ्गानुप्राणनसारायां प्राणात्मना चेतनरूपेण आस्ते यत् ओज इति कथ्यते, तदेव सर्वाङ्गेषु अनुप्राणकतया तदविभक्तवीर्यरूपत्वेन ततोऽपि पुनरपि नयनश्रवणादीन्द्रियद्वारेण वृंहकरूपं रूपशब्दादि अनुप्रविशत् वृंहकत्वादेव तत् वीर्यक्षोभरूपकामानलप्रवोधकं भवति । यथोक्तम्

'आलापाद्गात्रसंस्पर्शात्....…………॥’

इत्यादि । एकेनैव च रूपाद्यन्यतमेन उद्रिक्तप्राक्तनवलोपवृंहितस्य सर्वविषयकरणीयोक्तक्षोभकरणसमर्थत्वं सर्वस्य सर्वस्य सर्वसर्वात्मक-


१ सर्वान्तरतमत्वेन वर्तमानत्वात् मध्यमिति

'यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते।'

इति-वचनेनन, चैतन्मन्तव्यं नभःकुसुमं व्यतिरिक्तमेवेति, तदपि प्रकाशैकत्वान्न तथा इति ।

२ अयमत्रभावः - प्रमाणप्रमेययोर्यत् शब्दाद्यात्म श्रोत्रादिरूपं च कलाजालं तस्य ग्राह्यग्राहकाभावात्मपरस्परसंघट्टात् यत् मेलनं ततः

'शुचिर्नामाग्निरुद्भूतः संघट्टात्सोमसूर्ययोः'

इति-नीत्या मध्यधामानुप्रवेशात् विसर्गानन्द उन्मिषति. तदनुकल्पतया यत् अन्य आनन्द उपचर्यते येन तदपि परसंविदनुप्रवेशे कारणतामेतीत्यर्थः ।


पं.१ ख. पु. मध्यमनाडीति पाठः ।

पं. ग. पु. अविभक्तरूपत्वेनेति पाठः ।

पं. १२ क. पु. कारणसमर्थत्वमिति पाठः।