पृष्ठम्:श्रीपरात्रिंशिका.pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

इति । एवं स्वातन्त्र्यसाराकलितक्रियाशक्तिशरीरमनुत्तरम् । तदुक्तमुत्पलदेवपादैः

'सक्रमत्वं च लौकिक्याः[१] क्रियायाः कालशक्तितः।
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ।।'

इति। तत् व्याख्यातमिदमनुत्तरं षोडशधा। यदुक्तं सारशास्त्रे

'अनुत्तरं तद्हृदयं हृदये ग्रन्थिरूपता ।
ग्रन्थिं पोडशधा ज्ञात्वा कुर्यात्कर्म यथासुखम् ।।'


पं० १ क० पु० साराकालाकलितति पाठः ।


  1. लौकिक्या इति हस्तोत्क्षेपणापक्षेपणादिरूपायाः। कालशक्तित इति आभासविच्छेदनप्रदर्शनसामर्थ्यरूपात् पारमेश्वरात् शक्तिविशेषात् । शाश्वत्या इति अत्यक्तप्राच्यस्वभावायाः । प्राभव्या इति प्रभ्यव्यतिरेकिण्याः। अत्रायं तात्पर्यार्थः - लौकिकज्ञानव्यवहारमूलज्ञातृज्ञेयप्रकाशने सामर्थ्ये ज्ञानशक्तिर्देवस्य, तत्रैव संयोजनादिस्वतन्त्रतात्मा विमर्शशक्तिरेव क्रिया, सा तु वेद्यच्छायाच्छुरणम् अच्छत्वादवच्छेदकम् अभ्युपयती क्रमवती भाति वस्तुतोऽक्रमत्वेपि इति कालानवच्छेदात् तावत् अक्रमत्वं स्थितमेव इति किमत्रोच्यते उन्मिषितेऽपि वेद्यग्रामे मायाप्रमातृपदमध्यासीनोऽपि भगवान् यावदेव बाह्याभ्यन्तररूपवेद्यकुलं स्वात्मनि

    'प्रकाशस्यात्मविश्रान्तिः........................................।'

    इति,

    'इदमित्यस्य विच्छिन्न..........................................।'

    इत्यादिनयेन विश्रमयति ग्रसते तावत् तन्निष्ठोऽवभासनक्रमोऽपि ग्रस्त एवेति, अहमिति या संयोजनादिचित्रितसमस्तभावप्रकाशोपसंहारपर्यन्तदशा, विशेषविमर्शलक्षणा क्रिया सा निष्क्रमैवेति ॥