पृष्ठम्:श्रीपरात्रिंशिका.pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेतः

क्रिया इति तदेव अनुत्तरम् , अतिशयमाने तमपो विधिः, द्विवचनविभज्योपपदे अत्र तरप् । तत्र अयं शुक्लोऽयं शुम्कः, अयमनयोः अतिशयेन शुल्कः इति वाक्येऽयमर्थः - अनयोः शुल्कयोः मध्यात् अतिशयेन अयं शुल्कः शुल्कतरः, एषां तु शुल्कनामयमतिशयेन शुल्कः इति कोऽयमधिकोऽर्थः, तथाहि-अयं प्रासादः शुल्कः, अयं पटः शुल्कः, अयं हंसश्च शुल्कः, एषां सातिशयः शुल्कतभः इति, तत्र प्रासादोऽपि शुल्कः पटोऽपि शुल्कः इति किमिव अधिकमुक्तं स्यात्, तमपि प्रत्यये एवंविधवाक्यकरणमयुक्तमेव, न च तरपः तमप् अधिकमतिशयमभिदध्यात् , एवं तावत् तु स्यात्अविवक्षिते प्रतियोगिविशेष तमप्रयोगः, प्रतियोगिविशेषापेक्षायां तु तरप, प्रतियोग्यपेक्षैव


पं० ५ घ० पु० मध्यात् अयं सातिशयः शुक्ल इति पाठः ।

पं० १३ क० पु० तमपि प्रयोगे इति पाठः ।

पं० १९ क० पु० पेक्षयैव द्विवचनविभक्ति इति पाठः।