पृष्ठम्:श्रीपरात्रिंशिका.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

 किम् इत्थमभ्यासे सति भवति ? इत्याह
 यान्यान्कामयते कामां-
  स्तांस्ताञ्छीघ्रमवाप्नुयात् ।
 अस्मात्प्रत्यक्षतामेति
  सर्वज्ञत्वं न संशयः ॥ ३४ ॥

 एवमभ्यासात् यद्यत्कामयते तत्तदचिरादेव तथाविधसर्वमयहृदयवीर्यसमुच्छलितेच्छाप्रस- रावष्टम्भविशेषबलोद्योगसंरम्भसोत्साहः पुनः पुनः तस्थितिरूढिरूपाभ्यासात् प्राप्नोति, किं बहुना सर्वज्ञत्त्वं-परभैरवात्मकत्वमनेनैव देहेन, इति सर्वमुक्त्वोपसंह्रियते, पर्यन्ते हि प्रसरस्यो- पसंहारे विश्रान्तिरूपाकुलसत्तासादने भैरवता- इत्युक्तमसकृत् ॥ ३४ ॥

 सोऽयमुपसंहारग्रन्थः

एवं मन्त्रफलावाप्ति-
 रित्येतद्रुद्रयामलम् ।