पृष्ठम्:श्रीपरात्रिंशिका.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
परात्रिंशिका

षुकश्च कथमारोहतु? इति चेत् - कस्यायमर्थि- भावो, मा तर्हि आरुक्षत् सिद्धातन्त्रादिविधिमे व, तदाशयेनैव निरूपिततध्यानादिसंकोचमा- लम्बताम्, असंकोचितानुत्तरपदे हि अनधिकृत एव, एष एव सदोदितो योगः, गन्धपुष्पादि निर्णीतम्, यथा-शब्दः सहार्थे, तृतीया च तत्रै- वोक्ता, परयैव हृदयरूपया पूजयेत्, कथं? भक्त्या - तादात्म्यानुप्रवेशप्रह्वतात्मना, भक्त्या स्वयं- क्लृप्तेन पूज्यपूजकविभागेन, पूज्यो हि स्वयं क्लृप्तेन स्मृज्यते, स परं स्वतन्त्रचिन्मयतापरमार्थ एव - अनुत्तरस्वातव्यवलात् न घटादिरिव जड इति विशेषोऽत्र, तदुक्तं श्रीप्रत्यभिज्ञायाम्

'स्वतन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः ।
 प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ॥'

इति । भक्त्या च लक्षणया पूजनेन परं तत्त्वं लक्ष्यते-सर्वक्रियास्वेवंरूपताप्रत्यभिज्ञानमुपा- यत्वात् लिप्यक्षरस्येव मायीयवर्णव्युत्पत्तौ, त- स्यापि च वर्णवीर्यानुप्रवेश इवात्मानं निवेदये-