पृष्ठम्:श्रीपरात्रिंशिका.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
परात्रिंशिका

शशिथिलीभवच्छिथिलितविदलद्विदलितपाश- वनियमवन्धना एतद्धृदयव्याप्तिं स्वयमेव सम- धिशेरते तर्हि एतद्धृदयानुप्रवेश एव 'एतद्धृद- येऽनुप्रविष्टोऽस्मि इयं देवी परा' इत्येतच्छा- ब्दविकल्पकल्प्याः, अस्य च प्रत्युत हृदयान्त- रमार्गणादित्युक्तं विस्तरतः, अपि तु

संकोचयन्ति हृदयं नहि शास्त्रपाशा
 नो संविदं कलुषयेद्यदयं च लोकः ।
सम्यक्स्वभावपदवीपरिपूर्णरूपा
 सैवोल्लसल्लयभरा भरिता स्थितिः स्यात् ।।

 यदुक्तं मयैव स्तोत्रे

'भवद्भक्त्यावेशाद्विशदतरसंजातमनसा
 क्षणेनैषावस्था स्फुटमधिवसत्येव हृदयम् ।'

इति । अत एव कोणेषु पूज्यास्तिस्रो, मध्ये देवी परानन्दभैरवनिर्मथनरूपा, नित्यानन्दरसप्रसरे- णैव क्षोभात्मकविसर्गेण-इति देवतानां संप्र- दायो, यामलयोगे वीराणामपि आनन्देन्द्रिय- नित्यानन्दक्षोभात्मकदूतीसंघट्टजेन-इति एक-