पृष्ठम्:श्रीपरात्रिंशिका.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
परात्रिंशिका

क्तम् - इति न मन्तव्यम् , मन्त्रमहेशादिषु तु रूपं बोधैकपरमार्थमपि अपरवोधैकपरमार्थात् 'अन्यदहम् ' 'इदं पुनरिदमेव' इति संवित्, विज्ञानाकलानां तु बोधैकपरमार्थेनापि रूपेण 'अहं नेदम्' इति संवित् अप्रबोधात् 'अह- मित्येव' तत्र अप्रबुद्धम् , प्रलयकेवलिनाम् 'इदमहम्' इत्यप्रबुद्धमेव, अंत्र मायापदे च तन्निर्विकल्पकताभासेन यद्यपि अस्ति तथा- विध एव प्राणभूतो विमर्शः तथापि तद्रूपव्यव-

तन्निरासेन चैकस्मिन्नेवाधिकरणे यत्संगमनं संबन्धरूपं तत् सती शुद्धा विद्या अशुद्धविद्यातो मायाप्रमातृगताया अन्यैव । तत्र यदाहमित्यस्य यदधिकरणं चिन्मानरूपं तत्रैवेदमंशमुल्लासयति तदस्यास्फुटत्वात् सदा- शिवता, अहमिदमिति इदमहमिति तु इदमंशे स्फुटीभूतेऽधिकरणे यदा- हमंशविमर्श निपिञ्चति तदेश्वरतेति विभागः । १ शुद्धविद्यामहामायायां विमर्शस्वरूपमाह उत्पलदेवमहोदयः- मन्नेति । २ पुनरिति उपरिवर्त्यहन्ताया भिन्नमेवेदमंशप्राधान्यं यस्मान्महा- मायेति संज्ञा परैः कृता, यदुक्तं तत्रैव भेदधीरेवेति । ३ अग्र-प्रलयाकले, मायापदे-सकले च ।

पं०४ ग. पु. बोधैकपरमार्थेपि रूपे नाहं नेदम् इति पाठः ।