पृष्ठम्:श्रीपरात्रिंशिका.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

अभिमन्वान मन्त्रयते, यथार्थेन मध्यमपुरुषेण व्यपदिशति, सेयं हि भगवती परापरा, सर्वथा पुनरविच्छिन्नचमत्कारनिरपेक्षस्वातन्त्र्याहंविमर्श अहं तिष्ठा[१]मि इति पराभहारिकोदयः, यत्र उत्तमत्वं पुरुषस्य, यदुक्तम्

'यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥

इति।अत्र क्षराक्षररूपात् उभयतोऽपि हि उत्तमत्वम् अस्मि इत्यस्मदर्थेन उक्तम्, न[२]हि अत्र


पं० ६ ग० पु० अक्षरस्यापि चोत्तम इति पाठः ।

पं० ६ ख० पु० अत्तमोऽस्मीति पाठः ।


  1. तथा च विरूपाक्षपञ्चाशिकायां 'प्रथमो मध्यम उत्तम इति पुरुषा भेदिनत्रयोऽपि मिथः। मत्तस्तु महापुरुषात्प्रत्यवमर्शात्मनो न बहिः ॥ युध्मच्छेषापोहवदहमिति यद्भाति भिन्नमिव रूपम् । सदिदं भागविभेदो न स्वहमेकोसि यन्नित्यम् ॥' इति ।
  2. ननु अहं तिष्ठामीत्यत्र शरीराद्यहन्तैव स्फुटं प्रतीयते तत्कथमत्र पराभट्टारिकोदयः? इत्यत आह-नहीत्यादि, अयं पुनरत्र भावः-स्वतन्त्रप्रकाशघनाविनश्वरवस्तुतत्त्वं हि परमार्थः तदेव स्वस्वातन्त्र्यात् गृहीत देहाद्यहंभावोऽपि अहमित्युच्यते, तत्माच्यस्वरूपानपहारतोहयोतनाय । देहादेस्तु प्रत्यक्षमेव विच्छिन्नतापरमार्थत्वम् इति कथं तत्र 'अस्मीति' व्यपदेशः ।