पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वरुणम् व्रियतेऽसौ वरुणस्तम् ऋत्विग्भिर्वरणीयम् । भेषजं रोगनाशकम् । कविं कान्तदर्शनम् । क्षत्रं क्षतात्प्रहारात्त्रातारम् । वयोधसमायुषो दातारम् । किं कुर्वन् । अतिच्छन्दसं छन्दः इन्द्रियं वीर्यं बृहत् महत् ऋषभं पुष्टं गां वयश्चेन्द्रे दधत् । सेन्द्राः स्वाहाकृतयः आज्यं व्यन्तु । हे मनुष्यहोतः, त्वमपि यज ॥ ३४ ॥

पञ्चत्रिंशी।
दे॒वं ब॒र्हिर्व॑यो॒धसं॑ दे॒वमिन्द्र॑मवर्धयत् ।
गा॒य॒त्र्या छन्द॑सेन्द्रि॒यं चक्षु॒रिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। ३५ ।।
उ०. अथ वयोधसोनुयाजप्रैषाः । देवं बर्हिः यत् देवं द्योतनं बर्हिः । वयोधसमायुषो धारयितारं देवं दानादिगुणयुक्तं इन्द्रं अवर्धयत् । किंकुर्वन् । गायत्र्या छन्दसा इन्द्रियं वीर्यं चक्षुश्च इन्द्रे वय आयुश्च दधत् धारयत् । तत् वसुवननाय वसुधानाय च वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे होतः, यज ॥ ३५॥
म० वयोधसे पशावेवैकादशानुयाजानां प्रैषाः बर्हिरादिदेवताः । एकाधिके आर्ष्यौ त्रिष्टुभौ द्वे । बर्हिः देवं वयोधसमिन्द्रं देवमवर्धयत् । कीदृशं बर्हिः । गायत्र्या छन्दसा कृत्वा चक्षुरिन्द्रियं वयश्चेन्द्रे दधत् । तत् वसुवननाय वसुधानाय चाज्यं वेतु । षष्ठीसप्तम्यौ चतुर्थ्यर्थे । हे मनुष्यहोतः, त्वमपि यज । एवमग्रेऽपि व्याख्येयम् ॥ ३५ ॥

षट्त्रिंशी।
दे॒वीर्द्वारो॑ वयो॒धस॒ᳪ शुचि॒मिन्द्र॑मवर्धयन् ।
उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यं प्रा॒णमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ३६ ।।
उ० देवीर्द्वारः । या देव्यः द्वारः वयोधसमायुषो धारयितारम् । शुचिं पवित्रम् इन्द्रम् अवर्धयन् । किं कुर्वत्यः । उष्णिहा । छन्दसा इन्द्रियं वीर्यं प्राणं च इन्द्रे वय आयुश्च दधत् दधत्य इति लिङ्गवचनव्यत्ययः । धारयन्त्य इत्यर्थान्तरम् । ताः वसुवननाय वसुधानाय च व्यन्तु पिबन्तु । त्वमपि हे होतः, यज ॥ ३६ ॥
म० द्वारो देव्यः वयोधसं शुचिं पवित्रमिन्द्रमवर्धयन् । कीदृश्थो द्वारः । उष्णिहा छन्दसा कृत्वा सह वा प्राणमिन्द्रियं प्राणेन्द्रियं वयश्चेन्द्रे दधत् दधत्यः । लिङ्गवचनव्यत्ययः । ता व्यन्तु ॥ ३६ ॥

सप्तत्रिंशी।
दे॒वी उ॒षासा॒नक्ता॑ दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् ।
अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं बल॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। ३७ ।।
उ० देवी उषासानक्ता । ये देव्यौ उषासानक्ता उषाश्च रावेरपरकालः नक्तेति रात्रिनाम । देवमिन्द्रं वयोधसमायुषो धारयितारम् । देवी देव्यौ देवम् । एको देवीशब्दो दीप्तिवचनोऽपरो दानादिगुणयुक्तवचनः । देवशब्दोऽप्येवमेव । अवर्धताम् । किंकुर्वन्त्यौ । अनुष्टुभा छन्दसा इन्द्रियं बलं च इन्द्रे वय आयुश्च दधत् धारयन्त्यौ । ते वसुवननाय वसुधानाय च वीतां पिबतामाज्यस्य स्वमंशम् । त्वमपि हे होतः, यज ॥ ३७॥
म० द्वे ब्राह्यौधा बृहत्यौ । उषासानक्तौ देवी देव्यौ वयोधसमिन्द्रं देवमवर्धताम् । उषाश्च नक्तं च उषासानक्ता 'उषासोषसः' (पा० ६ । ३ । ३१) इत्युषःशब्दस्य देवताद्वन्द्वे उषासाआदेशः विभक्तेराकारश्च । कीदृश्यौ ते । देवी दीप्यमाने । कीदृशमिन्द्रम् । देवं दीप्यमानम् । एकौ देवीदेवशब्दौ दीप्तिवाचकौ अन्यौ सुरवाचकौ । अनुष्टुभा छन्दसा बलमिन्द्रियं वयश्च इन्द्रे दधत् दधत्यौ । दधदित्यव्ययम् लिङ्गवचनव्यत्ययो वा । ते वीताम् ॥ ३७॥

अष्टत्रिंशी।
दे॒वी जोष्ट्री॒ वसु॑धिती दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् ।
बृ॒ह॒त्या छन्द॑सेन्द्रि॒यᳪ श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। ३८ ।।
उ० देवी जोष्ट्री । ये देव्यौ जोष्ट्र्यौ जोषयित्र्यौ । वसुधिती वसुधात्र्यौ देवं दीप्तं वयोधसमायुषो धारयितारमिन्द्रम् देव्यौ देवम् अवर्धताम् । ते बृहत्या छन्दसा इन्द्रियं वीर्यं श्रोत्रं च इन्द्रे वय आयुश्च दधत् धारयन्त्यौ सत्यौ वसुवननाय वसुधानाय च वीतां पिबतामाज्यस्य स्वमंशम् । । त्वमपि हे होतः, यज ॥ ३८ ॥
म० देवी देव्यौ दीप्यमाने अनुयाजदेवते देवं दीप्तं वयोधसमिन्द्रं देवमवर्धताम् । देवीदेवशब्दौ पूर्ववत् । कीदृश्यौ । जोष्ट्र्यौ जुषेते ते जोष्ट्र्यौ प्रीतियुक्ते । जुषेस्तृच् । वसुधिती वसुनो धनस्य धारयित्र्यौ । बृहत्या छन्दसा श्रोत्रमिन्द्रियं वयश्च इन्द्रे दधत्यौ ॥ ३८ ॥

एकोनचत्वारिंशी। ।
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दु॒घे॒ पय॒सेन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् ।
प॒ङ्क्त्या छन्द॑सेन्द्रि॒यᳪ शु॒क्रमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। ३९ ।।
उ० देवी ऊर्जाहुती । ये देवी दात्र्यौ ऊर्जाहुती ऊर्जाह्वान्यौ दुघे दोग्ध्र्यौ सुदुघे सुदोहने पयसा इन्द्रं वयोधसं . देवी देव्यौ द्युस्थाने देवं द्युस्थानम् अवर्धताम् । ते पङ्क्त्या छन्दसा इन्द्रियं वीर्यं शुक्रं च इन्द्रे वय आयुश्च दधत् धारयन्त्यौ वसुवननाय वसुधानाय च वीतां पिबतामाज्यस्य स्वमंशम् । त्वमपि हे होतः, यज ॥ ३९॥