पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० कपर्दो जटाजूटोऽस्यास्तीति कपर्दी रुद्रस्तस्य धनुः विज्यं मौवींरहितमस्तु । विगता ज्या यस्य तत् । उतापि बाणवान् बाणा अस्मिन् सन्तीति बाणवान् इषुधिः विशल्यो विफलोऽस्तु । बाणाग्रगतो लोहभागः शल्यम् इषुधिर्निरग्रबाणोऽस्तु । अस्य रुद्रस्य या इषवः ता अनेशन् नश्यन्तु 'णश अदर्शने' नशेरत एत्वम् अङि वेत्येत्वम् पुषादित्वात् च्लेरङ् । अस्य रुद्रस्य निषङ्गधिः निषज्यत इति निषङ्गः खड्गः स धीयतेऽस्मिन्निति निषड्गधिः कोशः स आभुः रिक्तः खड्गरहितोऽस्तु । रुद्र अस्मान् प्रति न्यस्तसर्वशस्त्रोऽस्त्वित्यर्थः ॥१०॥

एकादशी।
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑: । तया॒ऽस्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑भुज ।। ११ ।।
उ० या ते या ते तव हेतिरायुधम् हे मीढुष्टम 'मिह सेचने' । सेक्तृतम युवतम । परिणामनिषेधद्वारेण स्तुतिः । अस्मात्सर्वं भवति । हस्ते बभूव भूता । ते इति निरर्थकः । धनुरिति हेतिविशेषणम् । तया हेत्या अस्मान्विश्वतः सर्वतः त्वम् अयक्ष्मया । यक्ष्मा व्याधिः । व्याधिरहितया परिभुज परिपालय ॥ ११ ॥
म० अतिशयेन मीढ्वान्मीढुष्टमः 'तसौ मत्वर्थे' ( पा० १। ४ । १९) इति भसंज्ञायां 'वसोः संप्रसारणम्' (पा० ६ । ४। १३१ ) इति संप्रसारणम् । षत्वष्टुत्वे । हे मीढुष्टम सेक्तृतम वर्षुक, ते तव हस्ते या धनुः हेतिः धनूरूपमायुधं बभूव अस्ति । एकं तेपदं पादपूरणाय । तया धनूरूपया हेत्या विश्वतः सर्वतोऽस्मान् परिभुज परिपालय । भुजेर्विकरणव्यत्यये शप्रत्ययः । कीदृश्या तया । अयक्ष्मया नास्ति यक्ष्मा रोगो यस्यास्तया निरुपद्रवया दृढया अनुपद्रवकारिण्या वा ॥ ११॥

द्वादशी।
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑: । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ।। १२ ।।
उ० परि ते । परिवृणक्तु परिवर्जयतु । ते तव धन्वनः धनुषः संबन्धिनी हेतिः आयुधं काण्डलक्षणम् अस्मान् विश्वतः सर्वतः । अथो अपिच । य इषुधिर्बाणवान् तव आरे दूरे अस्मत् अस्मत्तः निधेहि स्थापय तम् इषुधिम् ॥ १२ ॥
म०. हे रुद्र, ते तव धन्वनो हेतिः। धनुःसंबन्धि आयुधं विश्वतः सर्वतोऽस्मान् परिवृणक्तु त्यजतु । मा हन्त्वित्यर्थः । 'वृजी वर्जने' रुधादित्वात् श्नम् । अथो अपिच यस्तव इषुधिस्तमस्मत्सकाशात् आरे दूरे निधेहि अस्मत्तो दूरे स्थापय ॥१२॥

त्रयोदशी।
अ॒व॒तत्य॒ धनु॒ष्ट्वᳪ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑: सु॒मना॑ भव ।। १३ ।।
उ० अवतत्य अवतार्य धनुः त्वम् हे सहस्राक्ष शतेषुधे शतशब्दो बहुपर्यायः । निशीर्य शल्यानां मुखा शातयित्वा फलानां मुखानि । शिवः शान्तः नः अस्माकं सुमनाः शोभनमनस्कश्च भव ॥ १३॥
म० सहस्रमक्षीणि यस्य शतमिषुधयो यस्य हे सहस्राक्ष, हे शतेषुधे, त्वं नोऽस्मान् प्रति शिवः शान्तः सुमनाः शोभनचित्तश्च भव । अनुगृहाणेत्यर्थः । किं कृत्वा । धनुरवतत्य अपज्याकं कृत्वा शल्यानां मुखा मुखानि बाणफलाग्राणि निशीर्य शीर्णानि कृत्वा 'शॄ हिंसायाम्' 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' 'ऋत इद्धातोः' (पा० ७ । १।१००) इति ॥ १३ ॥

चतुर्दशी।
नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।। १४ ।।
उ० नमस्ते नमोऽस्तु ते तव आयुधाय अनातताय अवतारिताय । धृष्णवे धर्षणशीलाय प्रगल्भाय । उभाभ्याम् - उत अपिच । ते तव नमोऽस्तु । बाहुभ्यां तव धन्वने । धनुषे नम इत्यनुवर्तते ॥ १४ ॥ |
म० हे रुद्र, ते तवायुधाय नमोऽस्तु बाणाय नतिरस्तु । कीदृशाय । अनातताय धनुष्यनारोपिताय । धृष्णवे धर्षणशीलाय । धृषेः क्नुप्रत्ययः । रिपून् हन्तुं प्रगल्भाय । उतापि च ते तवोभाभ्यां बाहुभ्यां नमः तव धन्वने धनुषेऽपि नमोऽस्तु । तस्यापि विशेषणम् अनातताय अवतारितमौर्वीकाय ॥ १४ ॥

पञ्चदशी।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा न॑: प्रि॒यास्त॒न्वो॒ रुद्र रीरिषः ।। १५ ।।
उ० मा नः मावधीः नः अस्माकं महान्तं वृद्धं वयःप्रभृतिभिः । उत मा नो अर्भकम् अपि च मावधीः नः अस्माकमर्भकमल्पम् । मा न उक्षन्तम् मावधीः नः अस्माकमुक्षन्तम् । 'उक्ष सेचने' । सिञ्चन्तं तरुणमिति यावत् । उत मा न उक्षितम् । अपिच मावधीः नः अस्माकमुक्षितं सिक्तं गर्भस्थमित्यर्थः । मा नो वधीः पितरम् मावधीः नः अस्माकं पितरम् । आदरार्थं पुनर्वचनम् । महान्तमिति सिद्धत्वात् । मोत मातरम् मावधीः अपि च मातरम् । मा नः प्रियास्तन्वः रुद्र रीरिषः । रिषतिर्हिंसार्थः । मारी