पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टत्रिंशी
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।
घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्ये॑ अ॒ग्नेः ।। ३८ ।।
उ० मुखप्रभृति सप्तसु प्राणायतनेषु सप्त हिरण्यशलाकान्प्रत्यस्यति । सम्यक् स्रवन्ति । त्रिष्टुप् । हिरण्मयपुरुषाध्यासेनायं मन्त्रो व्याख्यायते । सम्यक्संगताः स्रवन्ति क्षरन्ति । कथमिव । सरितो न यथा सरितो नद्यः समुद्रमभिस्रवन्ति । काः स्रवन्ति । धेना अन्नानि । 'अन्नं वै धेना' इति श्रुतेः । अन्तर्हृदा मनसा पूयमानाः यजमानसंबन्धिना अन्तर्व्यवस्थितेन हृदा मनसा हृदयप्रतिष्ठितेन मनसा पूयमानाः पवित्रीक्रियमाणाः । अन्तर्वै हृदयेन मनसा सतान्नं पूतं यद्यजुः । यजमानो मनोवाक्कायकर्मभिरेकवृत्तिः । न केवलं धेनाः स्रवन्ति । किंतर्हि । घृतस्य धाराः स्रवत्यः अहम् अभिचाकशीमि पश्यामि । योयं हिरण्मयः वेतसः पुरुषः मध्ये अग्नेः निहितः । तत्र स्रवत्यो घृतधाराः । अभिचाकशीमीति संबन्धः ॥३८॥
म० 'मुखे करोति सम्यक्स्रवन्तीति' ( का० १७ । ५ । ७)। सम्यगिति मन्त्रेण पञ्चपशूनां मुखे एकैकं हिरण्यशकलं क्षिपतीति सूत्रार्थः । लिङ्गोक्तदेवता त्रिष्टुप् । हिरण्मयपुरुषोद्देशेनायं मन्त्रः । अग्नेर्मध्ये चितिमध्ये हिरण्मयो वेतसः पुरुषो यो निहितोस्ति तं प्रति धेना अन्नानि सम्यक् स्रवन्ति क्षरन्ति । हूयमानानि हवींषि तं प्रति गच्छन्तीत्यर्थः । 'अन्नं वै धेना' (७।५।२।११) इति श्रुतेः। कीदृश्यो धेनाः। मनसा पूयमानाः पवित्रीक्रियमाणाः । कीदृशेन मनसा । अन्तर्हृदा हृदयान्तर्वर्तमानेन हृत्प्रतिष्ठितेन विषयव्यावृत्तेन अव्याकुलेनेत्यर्थः । श्रद्धायुक्तेन मनसा दत्ता इत्यर्थः । 'अन्तर्वै हृदयेन मनसा सतान्नं पूतं य ऋजुः' (७।५।२।११) इति श्रुतेः । तत्र दृष्टान्तः । सरितो न । नकार इवार्थः । सरित इव यथा नद्यः समुद्रं प्रति स्रवन्ति गच्छन्ति तद्वत् । न केवलं धेनाः स्रवन्ति घृतस्य धारा अपि स्रवन्ति । ताश्च धेना घृतधाराश्च हिरण्मयं पुरुषं प्रति स्रवन्तीरहमभिचाकशीमि पश्यामि । चाकशीतिः पश्यतिकर्मा यङ्लुगन्तः ॥ ३८ ॥

एकोनचत्वारिंशी।
ऋ॒चे त्वा॑ रु॒चे त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा ।
अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै॑श्वान॒रस्य॑ च ।। ३९ ।।
उ० ऋचे त्वा बृहती । नासिकयोः प्रास्यति । ऋचे ऋग्वेदाय त्वां प्रास्यामीति शेषः । रुचे दीप्त्यै त्वां प्रास्यामीति शेषः । चक्षुषोः भासे त्वा ज्योतिषे त्वाम् । तुल्यः शेषः । श्रोत्रयोः अभूत् । इदं श्रोत्रं विश्वस्य भुवनस्य भूतजातस्य वाजिनम् वाग्ज्ञं वाचोज्ञातारम् । श्रोत्रेण हि शब्दा ज्ञायन्ते । अग्नेर्वैश्वानरस्य च । चशब्दात् वाजिनं वाग्ज्ञमभूत् । अयमग्निर्वैश्वानर इत्युपक्रम्य 'तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति' इत्येतदभिप्रायम् ॥ ३९ ॥ ।
म० हिरण्यशकलदेवत्यार्षी बृहती पादार्णनियमाभावात् । 'नासिकयोर्ऋचे त्वेति' ( का० १७ । ५। ९) मन्त्राभ्यां पशूनां नसोः शकलप्रासनमित्यर्थः । हे हिरण्यशकल, ऋचे ऋग्वेदाय तदुक्तहौत्रादिसिद्धये त्वा त्वां वा मनसि प्रास्यामि । | रुचे दीप्तये शोभाप्राप्त्यै त्वां दक्षिणनसि प्रास्यामि । 'शिराᳪसि प्रत्यञ्चीति' ( का० १७ । ५। १३ ) आदौ वामनसि ततो दक्षिणे । 'अक्ष्योर्भासे त्वेति' (का० १७ । ५। १०) भासे त्वेति मन्त्राभ्यां नेत्रयोस्तद्वद्धिरण्यशकलप्रासनम् । भासे . कान्त्यै त्वां वामनेत्रे प्रास्यामि । ज्योतिषे तेजसे तत्प्राप्त्यै त्वां दक्षनेत्रे प्रास्यामि । 'श्रोत्रयोरभूदिदमिति' ( का० १७ । ५। ११) कर्णयोः प्रास्यति अभूदिदमग्निर्ज्योतिषेति मन्त्राभ्याम् । इदं श्रोत्रं विश्वस्य सर्वस्य भुवनस्य भूतजातस्य वैश्वानरस्य विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितस्याग्नेश्च वाजिनं वाचो ज्ञातृ अभूत् सर्वप्राशब्दा वह्नेश्च शब्दोऽपि श्रोत्रेणैव ज्ञायतेऽतः श्रोत्रे हिरण्यं प्रास्यामीति शेषः । वाचमेति जानाति वाजिनम् । वाचपूर्वादेतेरौणादिको नक्प्रत्ययः । छान्दसः कुत्वाभावः । 'झलां जशोऽन्ते' (पा० ८ । २ । ३९ ) इति जश्त्वम् । अयमग्निर्वैश्वानर इत्युपक्रम्य 'तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति' इति श्रुत्यनुवादकोऽयं मन्त्रः । यद्वायमर्थः । इदं श्रोत्रेऽस्यमानं हिरण्यं विश्वस्य भुवनस्य वैश्वानरस्याग्नेश्च वाजिनं वीर्यं तेजोजनकमभूत् भवति अतोऽस्यामीति ॥ ३९ ॥

चत्वारिंशी।
अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान् रु॒क्मो वर्च॑सा॒ वर्च॑स्वान् । स॒ह॒स्र॒दा अ॑सि स॒हस्रा॑य त्वा ।। ४० ।।
उ० अग्निर्ज्योतिषा उष्णिक् । द्वितीयश्रोत्रप्रासनमन्त्रः । अग्निरिव ज्योतिषा ज्योतिष्मान् अस्तु । रुक्मइव वर्चसा वर्चस्वानस्तु । श्रोत्रं पुरुषशिर उद्गृह्णाति । सहस्रदा असि बहूनां दातासि । एवंचेत् अतः सहस्राय त्वामुद्गृह्णामि ॥ ४०॥
म०. हिरण्यशकलदेवत्योष्णिक् । द्वौ पादावष्टार्णौ तृतीयो द्वादशको व्यूहेन । दक्षिणश्रोत्रे शकलं प्रास्यति । अयमग्निः ज्योतिषा पशुश्रोत्रस्थितहिरण्यतेजसा ज्योतिष्मान् तेजस्वी अस्तु । रुक्मो रोचमानोऽग्निर्वर्चसा हिरण्यकान्त्या वर्चस्वान् | कान्तिमानस्तु । बाह्यप्रभा ज्योतिः शरीरगतकान्तिर्वर्च इति