पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० हे देवाः, हे इन्द्राग्नी, हे बृहस्पते, वो युष्माकं संबन्धिन्यो या रुचः दीप्तयः सूर्ये सूर्यमण्डले सन्ति गोषु धेनुषु अश्वेषु तुरगेषु च या युष्माकं रुचः सन्ति ताभिः सर्वाभिः रुग्भिः कृत्वा नोऽस्मभ्यं रुचं धत्त दत्त । तत्समप्रभानस्मान्कुरुतेत्यर्थः ॥ २३ ॥

चतुर्विंशी।
वि॒राड्ज्योति॑रधारयत्स्व॒राड्ज्योति॑रधारयत् । प्र॒जाप॑तिष्ट्वा सादयतु पृ॒ष्ठे पृ॑थि॒व्या ज्योति॑ष्मतीम् । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ । अ॒ग्निष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।। २४ ।।
उ० रेतःसिचावुपदधाति । विराट् ज्योतिरधारयत् । विराडयं लोकः स इममग्निं ज्योतिर्धारयति । द्वितीयामुपदधाति । स्वराट् ज्योतिः अधारयत् । असौ वै लोकः स्वराट् सोऽमुमादित्यं ज्योतिर्धारयति । विश्वज्योतिषमुपदधाति । प्रजापतिः त्वां सादयतु । पृष्ठे पृथिव्याः उपरि पृथिव्याः । ज्योतिष्मतीं ज्योतिषा संयुक्ताम् । किमर्थम् । विश्वस्मै सर्वस्मै प्राणाय अपानाय व्यानाय । किंच । विश्वं ज्योतिर्यच्छ निगृह्णीष्व । अग्निश्च तवाधिपतिः । सादयति । तया देवतयाङ्गिरस्वद्ध्रुवासीद । व्याख्यातम् ॥ २४॥
म० 'विराट् स्वराडिति रेतःसिचौ प्रतिमन्त्रम्' (का. १७ । ४ । २२)। द्वियजुषः पूर्वे अव्यवहिते रेतःसिचौ द्वे पद्येष्टके प्राग्लक्षणे अनूकमभितो विराट् स्वराडिति प्रतिमन्त्रमुपदधाति विराडित्युत्तरां स्वराडिति दक्षिणामिति सूत्रार्थः । द्वे यजुषी इदंलोकादोलोकदेवत्ये क्रमाद्यजुरनुष्टुभौ । विशेषेण राजत इति विराट् अयं लोको ज्योतिरग्निलक्षणमधारयत् धारयति । स्वेनैव राजत इति स्वराट् असौ लोको ज्योतिरादित्यलक्षणमधारयद्धारयति । 'विराडयं लोकः स इममग्निं ज्योतिर्धारयत्यसौ वै लोकः स्वराट् सोऽमुमादित्यं ज्योतिर्धारयति' (७ । ४ । २ । २३) इति श्रुतेः । (का. १७ । ४ । २३ ) इति प्रजापतिरिति विश्वज्योतिषम् । रेतःसिग्भ्यां पुरो यजमानकृतां प्रथमां विश्वज्योतिःसंज्ञामिष्टकां पद्यां प्राग्लक्षणामुदङ्मुखोऽनूके उपदधाति । विश्वज्योतिर्देवतं यजु:शक्करीच्छन्दस्कम् । पृथिव्याः पृष्ठे उपरि ज्योतिष्मतीं ज्योतिषोपेतां त्वा त्वामिष्टकां प्रजापतिः सादयतु स्थापयतु । किमर्थं । विश्वस्मै सर्वस्मै प्राणायापानाय व्यानाय प्राणादिसंपत्त्यर्थम् । किंच हे इष्टके, त्वं विश्वं सर्वं ज्योतिर्यच्छ निगृह्णीष्व देहि वा। अग्निश्च ते तवाधिपतिः स्वामी तया देवतयाग्निलक्षणया ध्रुवा स्थिरा सती सीद उपविश । अङ्गिरस्वदङ्गिरसां चयने यथा स्थिरा सीदः तद्वदत्रापीत्यर्थः ॥ २४ ॥

पञ्चविंशी।
मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः । ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । वास॑न्तिकावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।। २५ ।।

उ० ऋतव्ये उपदधाति मधुश्च । वसन्तऋतुरुच्यते । यस्त्वं मधुश्च माधवश्व चैत्रश्च वैशाखश्च वसन्तऋतुः । स्वार्थे तद्धितः । ऋतू इति द्विवचनमेकवचनस्य स्थाने अर्थसंबन्धात् । यस्त्वामग्नेः संवत्सराख्यस्य अन्तःश्लेषोऽसि अन्तर्मध्ये व्यवस्थितः श्लेषकोऽसि तस्य । तव कल्पेतां द्यावापृथिव्यौ । ज्यैष्ठयाय ज्येष्ठभावायेत्यनुषङ्गः । कल्पन्तां च आपः ओषधयः ज्यैष्ठ्याय । कल्पन्तां च अग्नयः पृथङ् मम ज्यैष्ठ्याय । 'अग्नयो हैते पृथग्ये देवता इष्टकाः' इति श्रुतिः । मम तवेति प्राप्ते ममेति व्यत्ययश्छान्दसः । अथ कोऽर्थः । कल्पन्ताम् इष्टका याः स्वयमातृण्णादयः नानाभूतास्तव ज्यैष्ठ्याय सव्रताः समानकर्माणः । समानं हि कर्म इष्टकानामग्निचयनं नाम । किंच । ये अग्नयः अन्यैरपि चिताः समनसः समानमनस्काः । अन्तरा मध्ये द्यावापृथिव्यौ इमे वर्तन्ते तेपि वसन्तमृतुमभिकल्पमानाः । वासन्तिकाविति स्वार्थे तद्धितः । ऋतू इति द्विवचनमेकवचनस्यार्थे । अभिकल्पमानाः संविशन्त्विति संबन्धः । कथमिव । इन्द्रमिव देवाः । यथा इन्द्रं देवानां राजानं परिचरणाय देवा अभिविशन्ति एवं वसन्तमृतुमन्या इष्टकाः परिचरणायाभिविशन्तु । सादयति । तया देवतयेति व्याख्यातम् ॥ २५ ॥
म० 'ऋतव्ये मधुश्च माधवश्चेति' ( का० १७ । ४ । २४) विश्वज्योतिषः पुरो द्वे पद्ये प्राग्लक्षणे ऋतव्येष्टके अनूकमभित उदङ्मुख उपदधाति । ऋतुदेवतं यजुः अष्टोत्तरशताक्षरत्वाच्छन्दो नास्ति । मधुश्चैत्रो मासः माधवो वैशाखः तावुभौ वासन्तिकौ वसन्तसंबन्धिनौ ऋतू अवयवौ । यद्वा मधुमाधवौ वसन्त एव वासन्तिक ऋतुः । द्विवचनमेकवचनार्थम् । हे तादृश वसन्ताख्य ऋतो, त्वं चीयमानस्याग्नेरन्तःश्लेषोऽसि अन्तर्मध्ये व्यवस्थितः सन् श्लेषकोऽसि । यथा कुड्यस्यान्तर्दार्ढ्याय काष्ठपाषाणादयः श्लिष्यन्ते तद्वत् । ममाग्निं चिन्वतो यजमानस्य ज्यैष्ठ्याय ज्येष्ठवायोत्कर्षाय इमे द्यावापृथिवी द्यावापृथिव्यौ कल्पन्तां स्वोचितमुपकारं संपादयताम् । यद्वा ममेति तवस्थाने व्यत्ययः । द्यावाभूमी तवोत्कर्षाय कल्पन्ताम् । आपश्चौषधयश्च तव ज्येष्ठत्वाय कल्पन्ताम् । समानं व्रतं कर्म येषां ते