पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० उखां कृणोतु करोतु । शक्त्या सामर्थ्येन । बाहुभ्याम् अदितिः धिया बुद्ध्या च कृता सती । माता पुत्रं यथा उपस्थे उत्सङ्गे । अग्निं बिभर्तु धारयतु । गर्भे आ। आकार आत्मनो योग्यां क्रियामाक्षिपति । आधारय । गर्भशब्द उखाभ्यन्तरवचनः । मृत्पिण्डमादत्ते । मखस्य यज्ञस्य शिरोसि । आहवनीयो यज्ञस्य शिरस्तदुद्धारणादिहापि लक्षणया शिरःशब्दः प्रवर्तते ॥ ५७ ॥
म० अदितिः शक्त्या सामर्थ्येन धिया बुद्ध्या च बाहुभ्यां हस्ताभ्यामुखां कृणोतु करोतु । सा उखा कृता सती गर्भे मध्यभागे आसमन्तात् अग्निं बिभर्तु धारयतु । तत्र दृष्टान्तः । यथा माता जननी उपस्थे उत्सङ्गे पुत्रं बिभर्ति तद्वत् । 'यजमान उखां करोति मृदमादाय मखस्य शिर इति' (का० १६ । ३ । २३) । यजमानपत्न्या तत्पिण्डान्मृदमादाय द्वादशाङ्गुलित्रिस्थानलिखिताषाढसंज्ञकेष्टकायां कृतायां यजमानः पिण्डान्मृदमादाय स्वयमेवोखां करोति । एकपशुपक्षे प्रादेशायामविस्तारोर्ध्वां चतुरस्रां पञ्चपशुपक्षे त्रिभागोनत्रयोविंशत्यङ्गुलायामविस्तारामूर्ध्वां प्रादेशेन वेति सूत्रार्थः । मृत्पिण्डदेवत्यं यजुः यजुर्गायत्रीच्छन्दः । हे मृत्पिण्ड, त्वं यज्ञस्य शिरोऽसि आहवनीयो यज्ञस्य शिरस्थयुद्धकरणादिहापि लक्षणया शिरःशब्दः ॥ ५७ ॥

अष्टपञ्चाशी।
वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽसि॑ पृथि॒व्य॒सि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽस्य॒न्तरि॑क्षमसि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानायादि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वासि द्यौर॑सि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय॒ विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽसि॒ दिशो॑ऽसि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय ।। ५८ ।।
उ० तं प्रथयति । वसवस्त्वा वसवस्त्वा कृण्वन्तु हे उखे, गायत्रेण छन्दसाङ्गिरस्वत् यथाङ्गिरसा कृता । यतश्च त्वं कृता सती ध्रुवा स्थिरासि पृथिवी चासि अतस्त्वां ब्रवीमि धारय स्थापय मयि । यजमानायेति चतुर्थ्यन्तं पदमुपरिष्टाच्छ्रूयते तदिह सप्तम्यन्तं कृत्वा योज्यते सामानाधिकरण्यात् । प्रजां धनस्य च पुष्टिं गोपतित्वं च । शोभनं च वीर्यं वीरकर्म । सजातान् समानजातान् भ्रातॄन् धारयेति | सर्वत्राभिसंबध्यते । उत्तरेषु मन्त्रेषु विशेषः। रुद्रास्वा अन्तरिक्षमसि । अदित्यास्त्वा द्यौरसि । विश्वे त्वा देवा वैश्वानराः। | विश्वान्नारयन्ति तारयन्ति वैश्वानराः दिशोऽसीति ॥ ५८ ॥ -
म० 'वसवस्त्वेति प्रथयति' (का० १६ । ३ । २३)। यजमान आत्तां मृदमुखातलाय प्रादेशमात्रविपुलां करोतीति सूत्रार्थः । उखादेवत्या ब्राह्मी अनुष्टुप् । हे उखे, वसवः देवविशेषाः गायत्रेण छन्दसा कृत्वा अङ्गिरस्वत् अङ्गिरस इव त्वा त्वां कृण्वन्तु कुर्वन्तु । यथाङ्गिरोभिर्मुनिभिः कृता तद्वत् । यतस्त्वं कृता सती स्थिरासि पृथिवी चासि अतस्त्वां - वच्मि । यजमानायेति चतुर्थी सप्तम्यर्थे । मयीति सामानाधिकरण्यात् हे उखे, मयि यजमाने प्रजां पुत्रादिकां धारय स्थापय । रायस्पोषं धनस्य पुष्टिं च धारय । गौपत्यं गोपतित्वं धनस्वामित्वं मयि धारय । सुवीर्यं शोभनं वीर्यं वीरकर्म मयि स्थापय । सजातान्समानोदरोत्पन्नान्भ्रातॄन्मयि धारय । 'अन्तानुन्नीय सर्वतः प्रथमं धातुमादधाति रुद्रास्त्वेति' (का० १६ ।३ । २७ ) । प्रथनानन्तरं प्रथिततलस्य प्रान्तान्सर्वानूर्ध्वं नीत्वा प्रथमां पिण्डिकामन्तैः संयोजयतीति सूत्रार्थः । उखादेवत्यम् | आर्ष्यनुष्टुप् । हे उखे, रुद्राः त्रैष्टुभेन छन्दसा त्वां कुर्वन्तु । त्वमन्तरिक्षरूपासीति विशेषः । शेषं पूर्ववत् । 'संलिप्य श्लक्ष्णं कृत्वोत्तरमादित्यास्त्वेति' (का. १६ । ३ । २८)। तामुखां | शिथिलमृदा लिप्त्वा वारिणा मृदुं कृत्वोत्तरं धातुं द्वितीयपिण्डिकां पूर्वोपरि योजयतीति सूत्रार्थः । उखादेवत्यम् । ब्राह्मी अनुष्टुप् । आदित्या देवाः जागतेन छन्दसा त्वां कुर्वन्तु त्वं द्योरूपासीति विशेषः । शेषा व्याख्या प्राची । “विश्वे त्वेति समीकरोति' (का. १६ । ३ । २९) । पूर्वोक्तमानां करोतीति सूत्रार्थः । औखम् ब्राह्मी बृहती । विश्वैर्नरैर्नीयन्ते विश्वानरान्नयन्ति वा विश्वेषां नराणां संबन्धिनो वा विश्वेभ्यो नरेभ्यो हिता वा वैश्वानराः एवंभूता विश्वेदेवाः हे उखे, त्वां कुर्वन्तु । आनुष्टुभेन छन्दसा कृत्वा त्वं च दिशो दिग्रूपासि । शेषं पूर्वतुल्यम् ॥ ५८ ॥

एकोनषष्टी।
अदि॑त्यै॒ रास्ना॒स्यदि॑तिष्टे॒ बिलं॑ गृभ्णातु । कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये॑ ।
पु॒त्रेभ्य॒: प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ।। ५९ ।।
उ० वितृतीय उत्तरेवर्ति सर्वतः करोति । अदित्यै रास्नासि।व्याख्यातम्। बिलं गृह्णाति।अदितिरदीना देवमाता ते तव बिलस्य मध्यं गृभ्णातु निदधातु कृत्वाय । उष्णिगनुष्टुब्वा आदित्याया उक्तगुणा अदितिः सा कृत्वाय क्त्वो यक् छान्दस उपजनः । कृत्वा । महीं महतीम् उखाम्। योनिं स्थानम् । अग्नये अग्न्यर्थम् पुत्रेभ्यः प्रायच्छत् प्रादात् श्रपयान् श्रपयन्तु । इतिकरणः प्रयोजनख्यापनार्थः ॥५९॥