पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
शिशुपालवधे

 तस्येत्यादिद्वयेन ॥ ये च तस्य चैद्यस्य मित्राणि नृपाः, ये च ते तवामित्रा नृपास्त उभये त्वयाभियुक्तमभियातमेनं चैद्यं गन्तारो गमिष्यन्ति । गमेः कर्तरि लुट् । अतः परे उक्तोभयव्यतिरिक्ताः तव मित्राणि तस्यामित्राश्वेत्यर्थः । त्वां गन्तारः॥ १०१॥

 ततः किमत आह-

  मख विघ्नाय सकलमित्थमुत्थाप्य राजकम् ।
  हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ १०२॥

 मखेति ॥ इत्थमनेन प्रकारेण । 'इदमस्थमुः' (५।३।२४) इति थमुप्रत्ययः । मखविघ्नाय मखविघाताय सकलं राजकं राजसमूहम् । 'गोत्रोक्ष- (४।२।३९) इत्यादिना वुञ् । उत्थाप्य क्षोभयित्वा । हन्त इति खेदे । अजातारेरजातशत्रोर्युधि- ष्ठिरस्य त्वया प्रथमेनारिणा जातमजनि । नपुंसके भावे क्तः ॥ १०२ ॥

 अस्तु सोऽपि शत्रुः, को दोषस्तत्राह-

  संभाव्य त्वामतिभरक्षमस्कन्धं स1 बान्धवः ।
  सहायमध्वरधुरां धर्मराजो विवक्षते ॥ १०३ ॥

 संभाव्येति ॥ बन्धुरेव बान्धवः स धर्मराजः अतिभरस्य क्षमः स्कन्धो यस्य स तम् । समानस्कन्धमित्यर्थः । त्वां सहायं संभाव्याभिसंधाय । अध्वरस्य धुरमध्वरधुराम् । 'ऋक्पूर्-' (५।4/७४) इत्यादिना समासान्तोऽच्प्रत्ययः । समासान्तानां प्रकृतिलिङ्गत्वात्तत्पुरुषे परवल्लिङ्गत्वे टाप् । विवक्षते वोढुमिच्छति । वहतेः स्वरितेतः सन्नन्ताल्लट् । तथा हि-विरोधे विश्वासघातो, बन्धुद्रोहश्च स्यातामिति भावः । विशेषणसाम्यात् प्रस्तुतयागधर्मप्रतीतेः समासोक्तिः ॥१०३॥ ननु प्रतिश्रुत्याकरणे दोषः प्रागेव, परिहारे तु को दोष इत्यत आह-

  महात्मानोऽनुगृह्णन्ति भजमानात्रिपूनपि ।
  सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः॥ १०४ ॥

 महात्मान इति ॥ महात्मानो नि2ग्रहानुग्रहसमर्था भजमानान् शरणागतान् रिपूनप्यनुगृह्णन्ति । किमुत बन्धूनिति भावः । अर्थान्तरं न्यस्यति- सिन्धवो महानद्यः समान एकः पतिर्यासां ताः सपत्नीः । 'नित्यं सपत्यादिषु' (४।१।३५) इति ङीप् नकारश्च । नगनिम्नगा गिरिनिर्झरिणीरब्धिं प्रापयन्ति । स्वसौभाग्यं ताभ्यः प्रयच्छन्तीति भावः । अतः परिहारेऽप्यनर्थ इति भावः ॥ १०४ ॥

 तर्हि संप्रत्युपेक्षायामपि पश्चात्प्रार्थनया पार्थमार्जवयेयमित्यत आह-

  चिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु ।
  छन्दानुवृत्तिदुःसाध्याः सुहृदो विमनीकृताः ॥ १०५ ॥

पाठा०-१ 'सुबान्धवः'. २ 'निग्रहानुग्रहसमर्था' इति क्वचिन्न लभ्यते.