पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
द्वितीयः सर्गः ।
                   द्वितीयः सर्गः                    ४९

स्वकार्येण गम्यत इति पर्यायोक्तालंकारः । 'कारणं गम्यते यत्र प्रस्तुतात् कार्यवर्ण- नात् । प्रस्तुतत्वेन संबन्धात् पर्यायोक्तः स उच्यते ॥' इति लक्षणात् ॥ ६३ ॥

  निरुद्धवीवधासारप्रसारा गा इव व्रजम् ।
  उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥ ६४ ॥

 निरुद्धेति ॥ किंच दाशार्हा यादवाः वीवधो धान्यादिप्राप्तिः, आसारः सुहृ- द्बलम्, प्रसारस्तृणकाष्ठादेः प्रवेशः । 'धान्यादेर्वीवधः प्राप्तिरासारस्तु सुहृद्बलम् । प्रसारः तृणकाष्ठादेः प्रवेश:-' इति वैजयन्ती । ते निरुद्धा यैस्ते तथोक्ताः, अन्यत्र निरुद्धौ वीवधानां पर्याहारापरनाम्नां स्कन्धवाह्यक्षीराद्याहरणसाधनभारविशेषा- णामासारप्रसारौ प्रवेशनिर्गमौ यैस्ते तथोक्ताः । 'विवधो वीवधो भारे पर्याहा- राध्वनोरपि' इति हेमचन्द्रः । व्रजं गोष्ठम् । 'व्रजः स्याद्गोकुलं गोष्ठम्' इति वैजयन्ती । गा इव माहिष्मतीं पुरीं द्विषोऽरीनुपरुन्धन्तु । व्रजे गा इव माहि- ष्मत्यामरीन् आवृण्वन्त्वित्यर्थः । 'दुहियाचिरुधि-' इति द्विकर्मकत्वम् । तत्र पुरीव्रजाकथितं कर्म, अन्यदीप्सितं कर्म ॥ ६४ ॥

 तर्हि पार्थपार्थनायाः का गतिरित्याशङ्क्य, उपेक्षैव गतिरित्याह-

  यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपस्विनः ।
  वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥६५॥

 यजतामिति ॥ पाण्डवो युधिष्ठिरो यजतां यागं करोतु । इन्द्रः स्वर्गमवतु रक्षतु । इनोऽर्कः । 'इनः पत्यौ नृपार्कयोः' इति मेदिनी । तपतु प्रकाशताम् । वयं द्विषोऽरीन् हनाम मारयाम। 'आडुत्तमस्य पिच्च' (३।४।९२) इत्याडागमः । सर्वत्र प्राप्तकाले लोट् । तथा हि-सर्वो जनः स्वार्थं स्वप्रयोजनं समीहतेऽनुसं. धत्ते । इन्द्रादिसमानयोगक्षेमो नः पार्थ इत्यर्थः । अर्थान्तरन्यासः ॥६५॥

  प्राप्यतां विद्युतां संपत्संपर्कादर्करोचिषाम् ।
  शस्त्रैर्द्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥ ६६

 प्राप्यतामिति ॥ किंच द्विषतां शिरश्छेदेन प्रोच्छलतोद्गच्छता शोणितेनो- क्षितैः सिक्तैः शस्त्रैरर्करोचिषां संपर्कात्संबन्धाद्विद्युतां संपल्लक्ष्मीः प्राप्यतामिति । निदर्शनालंकारः ॥६६॥

  इति संरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।
  सभाभत्तिप्रतिध्वानैर्भयादन्ववदन्निव ॥ ६७ ॥

 इतीति ॥ इतीत्थं संरम्भिणः क्षुभितस्य बलभद्रस्य वाणीरालेख्यदेवताश्चित्र- लिखितदेवताः सभायाः सदोगृहस्य भित्तीनां प्रतिध्वानैः । प्रतिध्वनिव्याजे- नेत्यर्थः । भयादन्ववदन्नन्वमोदयन्निवेत्युत्प्रेक्षा ॥ ६७ ॥

  निशम्य ताः शेषगवीरभिधातुमधोक्षजः ।
  शिष्याय बृहतां पत्युः प्रस्तावमदिशदृशा ॥ ६८॥


शिशु० ५