पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
शिशुपालवधे

 अथाष्टभिः कुलकेन रामं वर्णयंस्तद्वाक्यमवतारयति-

  ततः सपत्नापनयस्मरणानुशयस्फुरा।
  ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥ १४ ॥

 तत इति ॥ ततो रामो जगादेत्युत्तरेणान्वयः । सपत्नो रिपुः । 'रिपौ वैरिसपनारि-' इत्यमरः । तस्यापनयोऽपकारः तस्य स्मरणेन योऽनुशयः पश्चात्तापः । 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वः । तेन स्फुरतीति अनुशयस्फूः । तेन स्फुरा । ओष्टो बिम्बमिवेत्युपमितसमासः । रामायाः ओष्टबिम्बस्य चुम्बनेन वित्तो रामोष्ठबिम्बचुम्बनचुञ्चुः । तेन वित्तश्चुञ्चुप्चणपौ' (५।२।२६) इति चुञ्चुप्प्रत्ययः। 'ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम्' (वा०) । तेनौष्ठेनोपलक्षितः । समरसुरतयोः समरस इति भावः । उपमानुप्रासयोः संसृष्टिः ॥ १४ ॥

  विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृताम् ।
  प्रापयन् पवनव्याधेर्गिरमुत्तरपक्षताम् ॥ १५ ॥

 विवक्षितामिति ॥ विवक्षितां वृद्धत्वाभिमानादग्रे वक्तुमिष्टाम् । वचेर्ब्रूञो वा सन्नन्तात्कर्मणि क्तः । तत्क्षणे विवक्षाक्षणे एव इत्यविलम्बोक्तिः । प्रतिसंहृतां रामानुरोधानुरुद्धां अर्थविदः कार्यज्ञस्य अत एव पवनव्याधेरुद्धवस्य गिरमुत्तरपक्षतां सिद्धान्तपक्षतां प्रापयन् । स्वयमसत्पक्षावलम्बित्वादिति भावः । अनेन रामस्य व्यग्रतोक्ता ॥ १५॥

  घूर्णयन् मदिरास्वादमदपाटलितद्युती ।
  रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥ १६ ॥

 घूर्णयन्निति ॥ पुनः । मदिरास्वादेन मद्यपानेन यो मदस्तेन पाटलिता ईषद्रक्तीकृता द्युतिर्ययोस्ते रेवत्या देव्याः वदने यदुच्छिष्टं मद्यलेपताम्बूलादि अक्षिचुम्बनसंक्रान्तमिति भावः । तेन परिपूते शुद्धे पुटे ययोस्ते दृशौ घूर्णयन् भ्रामयन्निति मद्यविकारोक्तिः । उच्छिष्टपरिपूतेत्यत्र 'रतिकाले मुखं स्त्रीणां शुद्धमाखेटके शुनाम्' इति स्मरणात् । उच्छिष्टस्य पावित्र्यजनकत्वविरोधस्याभासत्वाद्विरोधाभासोऽलंकारः। 'आभासत्वे विरोधस्य विरोधाभास उच्यते' इति लक्षणात् ॥१६॥

  आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम् ।
  म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥ १७॥

 आश्लेषेति ॥ पुनः । आश्लेषलोलुपाया आलिङ्गनलुब्धायाः वध्वाः स्तनयोः कार्कश्यस्य काठिन्यस्य साक्षिणी उपद्रष्ट्रीम् । नित्यं पीड्यमानामिति भावः । 'साक्षाद्द्रष्टरि संज्ञायाम्' (५।२।९१) । इति साक्षाच्छब्दादिनिप्रत्ययः । वनमालामभिमानोष्णैरहंकारतप्तैर्मुखानिलैः निश्वासमारुतैर्म्लापयन् ग्लापयन् । म्लायतेर्ण्यन्ताल्लटः शत्रादेशः । 'आदेच-' (६।१।४५) इत्यात्वे पुगागमः । अम्लाने म्लानसंबन्धादतिशयोक्तिः ॥ १७ ॥

  दधत्संध्यारुणव्योमस्फुरत्तारानुकारिणीः ।
  द्विपद्द्वेषोपरक्ताङ्गसङ्गिनीः खेदविप्रुषः ॥१८॥