पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
शिशुपालवधे

 भवद्गिरामिति ॥ भवद्गिरां युष्मद्वाचां अवसरप्रदानाय । प्रसञ्जनायेत्यर्थः । नोऽस्माकं वचांसि सिद्धान्तोन्नयनार्थमुच्यन्ते । न तु सिद्धान्तत्वेनेत्यर्थः । तथाहि-पूर्वं रज्यतेऽस्मिन्निति पूर्वरङ्गः नाट्यशाला, तत्स्थं कर्माणि पूर्वरङ्ग इति दशरूपके । अतः पूर्वरङ्गो नाम रङ्गप्रधानाख्यो रङ्गविघ्नशान्तिकारी नान्दीपाठगीतवादित्राद्यनेकाङ्गविशेषो नाट्यादौ कर्तव्यः कर्मविशेषः । तदुक्तं वसन्तराजीये-'यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः प्रकीर्तितः ॥' इति । स पूर्वरङ्गः नाटके भवं नाटकीयम् । तत्र वर्ण्यमित्यर्थः । वृद्धाच्छः । तस्य 'आयनेयी-' (७।१।२) इतीयादेशः । तस्य वस्तुनः प्रसिद्धस्य प्रसङ्गाय प्रसञ्जनाय । प्रवर्तनायेति यावत् । अतः प्रथमवादो न दोषायेति भावः । पूर्वरङ्गः प्रस्तावनेति रङ्गराजः । तच्चिन्त्यम् । 'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेन्नटः ॥ प्रथमं पूर्वरङ्गश्च ततः प्रस्तावनेति च । आरम्भे सर्वनाट्यानामेतत्सामान्यमिष्यते ॥' इति दशरूपकाद्युक्तभेदविरोधादिति । अत्र हरिवाक्यपूर्वरङ्गयोः प्रसञ्जकत्वस्वरूपसामान्यस्य वाक्यद्वये शब्दान्तरेण पृथङ्निर्देशात् प्रतिवस्तूपमालंकारः । तल्लक्षणं तूक्तम् ॥ ८॥

 संप्रति स्वमतमाह-

  करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् ।
  विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥९॥

 करदीकृतेति ॥ दिशां जित्वरैः जयनशीलैः । 'इण्नश्जिसर्तिभ्यः क्वरप्' (३।२।१६३)। कृद्योगात्कर्मणि षष्ठी । भ्रातृभिर्भीमादिहेतुभिः । करदाः षष्ठभागप्रदाः। 'भागधेयः करो बलिः' इत्यमरः। ततः च्विः। 'ऊर्यादिच्विडाचश्च' (१।४।६१) इति गतिसंज्ञायां 'कुगतिप्रादयः' (२।२।१८) इति नित्यसमासः । अकरदाः करदाः संपद्यमानाः कृताः करदीकृता भूपाला यस्य सः वशीकृतराजमण्डलः तपसः सुतो धर्मपुत्रः । 'तपश्चान्द्रायणादौ स्याद्धर्मे लोकान्तरेऽपि च' इति विश्वः । अस्मद्विना । अस्माभिर्विनापीत्यर्थः । 'पृथग्विनानाना-' (२।३।३२) इत्यादिना तृतीयाविकल्पात् पञ्चमी । इज्यायै यागाय । यजेर्भावे क्यप् । 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । 'नमःस्वस्ति-' (२।३।१६) इत्यादिना चतुर्थी । अलं समर्थो भूष्णुर्भवनशीलः । 'भूष्णुर्भविष्णुर्भविता' इत्यमरः । 'ग्लाजिस्थश्च रस्नुः' (३।२।१३९) इति ग्स्नुप्रत्ययः । 'क्ङिति च' (१॥१॥५) इत्यत्र गकारप्रश्लेषाद्गुणाभावः । तथा च जयादित्यः तत्रैव गकारोऽपि च तत्त्वभूतो निर्दिश्यते' । अतो जैत्रयात्रैव कार्या न यज्ञयात्रेति भावः ॥ ९॥

 ननु यज्ञतो जैत्रयात्रायामुभयानुसरणं स्यात्तत्राह-

  उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता।
  समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ १० ॥

 उत्तिष्ठमान इति ॥ उत्तिष्ठमानो वर्धमानः। 'उदोऽनूर्ध्वकर्मणि' (१।३।२४)

इत्यात्मनेपदम् । परः शत्रुः पथोऽनपेतं पथ्यं हितमारोग्यं चेच्छता । पुंसेति शेषः । नोपेक्ष्यो नौदासीन्येन द्रष्टव्यः। कुतः। हि यस्माद्वर्त्स्यन्तौ वर्धिष्यमाणौ। 'लृटः सद्वा'