सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२३
कविवंशवर्णनम् ।


फले मोहादुद्वाहुरिव वामनः ॥' (रघुवंशे १३) इति । किंलक्षणं काव्यम् । श्रीशब्दरम्यकृतसर्गसमाप्तिलक्ष्म । श्रीरित्ययं शब्दो ध्वनिर्मङ्गलवाचकत्वात् । तेन रम्यं कृतं मनोहरं विहितं सर्गाणां समाप्तौ अर्थादध्यायानां समापने लक्ष्म चिह्न यत्र तत्तथोक्तम् । अपरं किंलक्षणं काव्यम् । लक्ष्मीपतेः श्रीनारायणस्य कीर्तनमात्रचारु कीर्तनमात्रेण वर्णनमात्रेण चारु मनोज्ञम् । न त्वलंकारादिनेत्यनौद्धत्यकथनम् । भङ्ग्या तु सर्वेऽत्र काव्ये गुणाः सन्तीत्युक्तं भवति । श्रीरित्ययं शब्दः । मयूरव्यंसकादित्वात्समासः । यदि श्रीश्चासौ शब्दश्चेति कर्मधारयः केवलमेव । चरितकीर्तनमात्रमित्यस्वपदेन विग्रहः । सुप्सुपेति समासः । वसन्ततिलका वृत्तम् । उदात्तो मध्यमोऽलंकारः ॥ ५॥

इति कविवंशवर्णनम् ।

समाप्तम्।