पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२१
कविवंशवर्णनम् ।

अथ कविवंशवर्णनम् । [प्रशस्तिश्लोकानां मल्लिनाथकृता टीका नोपलब्धेति वल्लभदेवकृतैवात्र लिख्यते।] सर्वाधिकारी सुकृताधिकारः श्री1वर्मलाख्यस्य बभूव राज्ञः । असक्तदृष्टिर्विरजाः सदैव देवोऽपरः सुप्रभदेवनामा ॥१॥ सर्वाधिकारीति ॥ श्रीवर्मलाख्यस्य राज्ञः श्रीवर्मलाभिधानस्य नृपतेः अखिलकर्मस्थानाधिकृतो महासेनापतिः सुप्रभदेवनामा बभूव सुप्रभदेवा- भिधानोऽभूत् । किंलक्षणः सुप्रभदेवनामा। सुकृते पुण्ये कर्म- ण्यधिकारो व्यापारो यस्य स तथा । धर्मेऽवसक्तः । यश्च सुकृत एवाधिकृतः स कथं सर्वाधिकारी । तथा अपरो देवः द्वितीयो राजेव । तत्सादृश्यात् । राजा हि सर्वाधिकारी भवति । अथवा अपरो देवो देवसदृशः । सुरा हि सुकृताधिकृताः, असक्तदृष्टयोऽनिमिषाः, विरजस्का निर्धूलयः । वृत्तमिदमुपजातिः ॥ १ ॥ काले मितं तथ्यमुदर्कपथ्यं तथागतस्येव जनः सचेताः। विनानुरोधात्स्वहितेच्छयैव महीपतिर्यस्य वचश्चकार ॥२॥ काले इति ॥ यस्य सुप्रभदेवस्य काले समये यद्वचनमुपदेशवाक्यं तन्म- हीपतिवर्मलाख्यश्चकार अकरोत् । कः कस्येव वचश्चकारेत्याह-तथागतस्य बुद्ध- भट्टारकस्य वचो यथा सचेताः प्राज्ञो जनोऽन्वतिष्ठत् । कथंचिन्मन्दादरश्चकार, नेत्याह-कुतः । अनुरोधाद्विना उपरोधभावमृते । कथं चकारेत्याह-स्वहितेच्छ- यैव स्वस्यात्मनो हितेच्छयानुकूलचिकीर्षया । यतोऽसौ सचेताः प्राज्ञः । किंलक्षणं वचः हितहेतुत्वमाह-मितं स्वल्पाक्षरम् । तथा तथ्यं सत्यम् । अपरं किंलक्षणं वचः । उदर्कपथ्यमायत्यां हितम् । 'उदर्कः फलमुत्तरम्' इत्यमरः । तथागतस्य बुद्धभट्टारकस्य सचेताः प्राज्ञो जनो मितं तथ्यमुदर्कपथ्यं वचो यथा स्वहितेच्छ- यैव करोति तत्रानुरोधात्कृत्वोभयतः किलेदमुक्तमिति ॥ २॥ तस्याभवद्दत्तक इत्युदात्तः क्षमी मृदुर्धर्मपरस्तनूजः । यं वीक्ष्य वैयासमजातशत्रोर्वचो गुणग्राहि जनैः प्रतीये ॥३॥ तस्येति ॥ तस्य सुप्रभदेवस्य दत्तक इति दत्तकाख्यस्तनूजोऽभवत् पुत्रो- ऽभूत् । किंलक्षणो दत्तकः । उदात्तो विपुलचित्तः । तथा क्षमी क्षमाशीलः । अपरं किंलक्षणो दत्तकः । अत एव मृदुरकठोरः । तथा धर्मपरः सुकृतैकसक्तः । यं दत्तकं जनैर्वीक्ष्य लोकैर्दृष्ट्वा वैयासं व्यासस्येदं कृष्णद्वैपायनोक्तमजातशत्रोर्युधिष्ठिरस्य

पाठा०-१ श्रीधर्मनाभस्य', 'श्रीवर्मतालस्य'.