पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिशुपालवधे मधुरैः स्वादुभिः । अनुद्दीपकैरित्यर्थः । मेध्यमवभवैः । 'दिगादिभ्यो यत्' (४।३।५४) । वारिभिः प्रथमं वैपरीत्येनापि 'प्रत्युतेति वैपरीत्ये' इति गणव्याख्याने । भूयसा अत्यन्तम् । भृशमित्यर्थः । दिदीपे प्रजज्वाल । ततः क्रमेणाशमच्छान्तोऽभूत् । शाम्यतेर्लुंङि पुषादित्वाञ्चलेरङादेशः । जलाहतोऽग्निज्वलितो नश्यति, प्रणयकोपोऽपि प्रियैः भृशायित्वा शाम्यतीति प्रसिद्धम् । उपमा ॥ ७१ ॥ परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः । प्रबलेषु कृती चकार विद्युयपदेशेन घनेष्वनुप्रवेशम् ॥ ७२ ॥ परित इति ॥ परितः प्रसभेन बलात्कारेण शरवर्षीरसेकैः । 'शरं नीरे शरो बाणे' इति विश्वः । अवसायमवसादं नीयमानः । कृती कुशलः । आश्रयमनातीत्याश्रयाशोऽग्निः । 'कर्मण्यण्' (३।२।१)। प्रबलेषु घनेषु मेघेषु विद्युध्यपदेशेन तडिच्छलेनानुप्रवेशं चकार । अस्ताग्निर्विद्युद्रूपेण मेघेष्वेव प्रविष्टः । बलवताभिभूतस्य विदेशगमनं तदनुप्रवेशो वेति नीतेरिति भावः । अत्र विशेषणसाम्यादग्नावप्रकृतदुर्बलत्वप्रतीतेः समासोक्तिः ॥ ७२ ॥ प्रयतः प्रशमं हुताशनस क्वचिदालक्ष्यत मुक्तमूलमर्चिः । बलभित्प्रहितायुधाभिघातात्रुटितं पत्रिपतेरिवैकपत्रम् ॥ ७३ ॥ प्रयत इति ॥ प्रशमं नाशं प्रयतः गच्छतः । प्रेतीति प्रयन् तस्य प्रयतः । इणः शतरि यणादेशः । हुताशनस्याग्नेः संबन्धि मुक्तमूलं त्यक्तमूलं त्यक्ताश्रयमर्चिर्ज्वाला । 'ज्वालाभासोनपुंस्यर्चिः' इत्यमरः । बलभिदा शक्रेण प्रहितस्य प्रयुक्तस्यायुधस्य वज्रस्याभिघातात्प्रहरात्त्रुटितं छिन्नं पत्रिपतेः पक्षिराजस्य गरुत्मत एकं पत्रं पक्षमिव क्वचिदालक्ष्यत अदृश्यत इत्युपमा । पुरा मातृदास्यविमोकायामृतमाहरता गरुडेनेन्द्रप्रयुक्तवज्रगौरवादेकं पत्रं त्यक्तमित्यागमः ॥ ७३ ॥ व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनं घनाघनौघाः । उपकृत्य निसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ॥ ७४ ॥ व्यगमन्निति ॥ घनाघनौघाः वर्युकाब्दसमूहाः । 'शक्रधातुकमत्तेभवर्षकाव्दा घनाघनाः' इत्यमरः । शिखिनमग्निं शमयित्वा सहसा दिशां मुखेभ्यो व्यगमन्न- पसत्रुः । गमेलङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः । तथा हि- महान्तो निसर्गतः स्वभावादेव परेषां उपकृत्य उपकारं कृत्वा उपरोधं न हि कुर्वते । महतां निष्फलावस्थानं परोपरोधायेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ७४ ॥ कृतदाहमुदर्चिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन । विगताम्बुधरव्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् ।। ७५॥ कृतेति ॥ उदर्चिषोऽग्नेः शिखाभिः ज्वालाभिः कृतदाहं विहिततपनं ततो नवेनाम्भसा मुहुः परिषिक्तं विगता अम्बुधरा एव व्रणा दोषा यस्य तद्गगनं