पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१६
शिशुपालवधे

शिशुपालवधे अथासारतया जलशोषान्निःसारतया मषीभवन्तः अम्बुवाहाः पुनः स्वमाकारं नीलरूपमवापुः । अत्र मेघानां मषीभावाद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ६३॥ ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्रपीतभासः । क्षणमात्रभवामभावकाले सुतरामापुरिवायतिं पताकाः ॥ ६४ ॥ ज्वलितेति ॥ ज्वलितेन प्रज्वलता अनलेन अनलतापेन लोलाः पल्लवान्ता अञ्चलाग्राणि यासां ताः स्फुरद्भिर्दीप्यमानैरष्टापदपत्रैः कनकरचनाभिः पीतभासः पिङ्गलवर्णाः पताका वैजयन्त्यः अभावकाले विनाशकाले क्षणमात्रभवां क्षणमात्रभाविनीम् । क्षणमात्रस्थायिनीमित्यर्थः । आयतिं दैयं सुतरामापुरित्यर्थः। प्रदीपवदिति भावः । अष्टसु लोहेषु पदमस्येत्यष्टापदम् । 'अष्टनः संज्ञायाम्' (६।३।१२५) इति दीर्घः। 'रुक्म कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्' इत्यमरः ६४ निखिलामिति कुर्वतश्चिराय द्रुतचामीकरचारुतामिव द्याम् । प्रतिघातसमर्थमस्त्रमग्नेरथ मेघंकरमसरन्मुरारिः ॥ ६५ ॥ निखिलामिति ॥ अथानन्तरं मुरारिः इतीत्थं निखिला द्यामाकाशं द्रुतचामीकरचारुतां प्रतप्तहेमकर्बुरामिवेत्युत्प्रेक्षा चारुतामित्यत्र । चिराय कुर्वतोऽग्नेः प्रतिघातसमर्थं प्रशमनक्षमं मेघान्करोतीति मेघंकर मेघजननम् । 'मेघर्तिभयेषु कृजः' (३।२।४३) इति खलप्रत्ययः । 'अरुषिदजन्तस्य मुम्' (६।३।६७) इति मुमागमः । अस्त्रं वारुणास्त्रमस्मरद्दध्यौ आजहार ॥ ६५ ॥ चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः संधिषु लीनसर्वसिन्धोः । उदगुः सलिलात्मनस्त्रिधाम्नो जलवाहावलयः शिरोरुहेभ्यः ॥६६॥ चतुरिति ॥ चत्वारोऽम्बुधय एव गर्भास्ते धीरो गम्भीरः कुक्षिर्यस्य तस्य वपुषः संधिषु लीनाः सर्वाः सिन्धवो नद्यो यस्य तस्य सलिलात्मनस्तोयात्मकस्य त्रीणि धामानि स्थानानि भूरादीनि सत्त्वादीनि वा यस्य तस्य विधाम्नो हरेः शिरोरुहेभ्यो जलवाहावलयो मेघपरम्परा उदगुरुद्धभूवुः । 'इणो गा लुङि' इति गादेशे 'गातिस्था-' (२।४।७७) इत्यादिना सिचो लुक् । 'यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने मनः ॥ (महाभारते शान्ति० ४७।६०) इत्यागमोक्तं प्रमाणमिति भावः ॥ ६६ ॥ ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासाम् । उदनंसिषुरभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ॥ ६७ ॥ ककुभ इति ॥ कृतनादं कृतगर्जारावं यथा तथा ककुभ आस्तृणन्त आच्छा. दयन्तः । स्तृणातेर्लटः शत्रादेशः 'नाभ्यस्तयोः-' (६।४।११२) इत्याकारलोपः । भानुभासामांशूनां पटलानि तिरयन्तस्तिरस्कुर्वन्तः । तिरःशब्दात् 'तत्करोति' (ग०) इति ण्यन्ताल्लटः शन्नादेशः। णाविष्टवद्भावाहिलोपः । अभ्रमाकाशं श्यामलिमानमानयन्तः

श्यामलत्वं प्रापयन्तः अभ्रसङ्घा मेघौघाः सपदि सद्य उदनंसि-