पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९८
शिशुपालवधे

ञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । अन्तो नाशो द्वयोर्मुत्युमरणं निधनोऽस्त्रियाम् ॥' इत्यमरः । पाञ्चभौतिकस्य शरीरस्य पञ्चधाभावः पञ्चता । अत्र स्पर्धेति हेतोरुप्रेक्षणाद्धेतूप्रेक्षा । सा च व्यञ्जकाप्रयोगाद्गम्या । स्पर्धयेवेत्यर्थः ॥ ११७ ॥

॥ समुद्रः॥

 सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु ।
 महो दधे स्तारि महानितान्तं महोदधेऽस्तारिमहा नितान्तम् ११८

 सदेति ॥ सदैव सर्वदैव संपन्नं सर्वलक्षणसमग्रं वपुर्यस्य स संपन्नवपुः । नित्यपरिपूर्णमूर्तिः । संहितायां 'ट्रलोपे पूर्वस्य दीर्घोऽणः' (६।३।१११) । अस्तं निरस्तमरीणां महस्तेजो येनासौ अस्तारिमहाः महानधिकः स हरिः दैवसंपत् भाग्यसंपत्तिः सैव नवं पूरणं प्रत्ययसाधनं येषां तेषु दैवसंपन्नवपूरणेषु दैवसहा- येषु रणेषु महोदधेर्महार्णवस्य इतान्तं प्राप्तपारं समुद्रपारगामि नितान्तं स्तारि विस्तीर्ण महस्तेनो दधे धारयामास । अर्धाभ्यासलक्षणसमुद्यमकभेदः । 'अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः' इत्युक्तं दण्डिना । उपेन्द्रवज्रा वृत्तम् ॥ ११८॥

  इष्टं कृत्वार्थं पत्रिणः शाङ्गपाणे-
   रेत्याधोमुख्यं प्राविशन्भूमिमाशु ।
  शुद्ध्या युक्तानां वैरिवर्गस्य मध्ये
   भर्त्रा क्षिप्तानामेतदेवानुरूपम् ॥ ११९ ॥

 इष्टमिति ॥ शार्ङ्गं पाणौ यस्य शार्ङ्गपाणेः कृष्णस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा०) इति पाणेः परनिपातः । पत्रिणो बाणाः इष्टमर्थ शत्रुवधात्मकं कृत्वा आधोमुख्यमधोमुखत्वमेत्य प्राप्य आशु भूमिमाविशन् शुद्ध्या लोहशुद्ध्या पवित्रतया च युक्तानां तथापि भर्ना स्वामिना वैरिवर्गस्य मध्ये क्षिप्तानां पातितानाम्, एतदेव आधोमुख्येन क्वचिन्निलयनमेवानुरूपमुचितम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । जागतं वैश्वदेवीवृत्तम् । ‘पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ' इति लक्षणात् ॥ ११९ ॥

॥ चक्रबन्धः॥

 सत्त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो
  लब्धापक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
 मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे-
  रेकौधैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥ १२० ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
एकोनविंशतितमः सर्गः ॥ १९ ॥