सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
शिशुपालवधे

च यस्य तत् । अपास्तानि पुष्पाणि, पुष्पकं विमानं च यस्मात्तत् । पुष्पपक्षे वैभाषिक: कप्प्रत्ययः । मनुष्यस्येव धर्मः श्मश्रुलत्वादिर्यस्येति स्वामी । तस्य मनुष्यधर्मणः । 'धर्मादनिच् केवलात्' (५।४।१२४) इत्यनिच् । मानसं चित्तं, तदीयं सरश्च । 'मानसं सरसि स्वान्ते' इति विश्वः । मुहुर्न कम्पयामास न क्षोभयामासेति न, किंतु कम्पयामासैवेत्यर्थः । कुबेरस्य महामहिमतया संभाविताप्रकम्पित्वनिवार- णाय नञ्द्वयम् । 'संभाव्यनिषेधनिवर्तने नञ्द्वयम्' इति वामनः । अत्र दन्तिरा- वणयोः प्रकृताप्रकृतयोः श्लेषः ॥ ५५ ॥

रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुंकारपराङ्मुखीकृताः।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे ॥५६ ॥

 रणेष्विति ॥ किंच रणेषु प्रचेतसा वरुणेन प्रहिताः प्रयुक्ता उरगराजा महा- सर्पास्ते रज्जव इव उरगराजरज्जवः । नागपाशा इत्यर्थः । तस्य रावणस्य सरोषहुं- कारेण पराङ्मुखीकृता व्यावर्तिताः । अत एव सभयाः सत्यः जवेन वेगेन प्रहर्तुः प्रयोक्तुः प्रचेतस एव कण्ठं प्रपेदिरे प्राप्ताः । अत्र परहिंसाप्रयुक्तस्यायुधस्य वैप- रीत्येन स्वकण्ठग्रहणादनर्थोत्पत्तिरूपो विषमालंकारः । 'विरुद्धकार्यस्योत्पत्तिर्यत्रा- नर्थस्य वा भवेत्' इति लक्षणात् ॥ ५६ ॥

परेतभर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः ।
हृतेऽपि भारे महतस्त्रपाभरादुवाह दुःखेन भृशानतं शिरः ॥ ५७ ॥

 परेतभर्तुरिति ॥ अमुना रावणेन धनुः शार्ङ्गं विधातुं निर्मातुमुत्खातमुत्पाटितं विषाणयोः शृङ्गयोर्मण्डलं वलयं यस्य स परेतभर्तुर्यमस्य महिषः । वाहनभूत इति भावः । भारे विषाणरूपे । भृञो घञ् । हृतेऽपि महतस्त्रपैव भरस्तस्मात् । ततोऽपि दुर्भरादिति भावः । भृधातोः कैयादिकात् 'ॠदोरप्' (३।३।५७) इत्यप्प्रत्ययः । भृश- मत्यर्थमानतं नम्रं शिरो दुःखेनोवाह वहति स्म । 'असंयोगाल्लिट् कित्' (१।२।५) इति कित्त्वात् 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । हृतेऽपि भारे नतमिति विरोधः । तदनुप्राणिता चेयमवनतिहेतुत्वसाधर्म्यात् त्रपाभारत्वो- त्प्रेक्षा ॥ ५७ ॥

स्पृशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः ।
अघर्मघर्मोदकबिन्दुमौक्तिकैरलंचकारास्य वधूरहस्करः ॥ ५८ ॥

 स्पृशन्निति ॥ अहः करोतीत्यहस्करः सूर्यः । 'दिवाविभानिशा-' (३।२।२१) इत्यादिना टप्रत्ययः। कस्कादित्वात् सत्वम् । शुचौ समये ग्रीष्मकाले, अनुपहते आचारे च स्थितोऽपि । 'शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोरपि । ग्रीष्मे हुतवहेऽपि स्यात्' इति विश्वः। 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । असमग्रपातिभिः । संकुचितवृत्तिभिरित्यर्थः । कराणामंशूनां, हस्तानां चाग्रैः । 'बलिहस्तांशवः कराः' इत्यमरः । सशङ्कः स्पृशन् । अविश्वासभयादिति भावः । अघर्मा अनुष्णा घर्मोदक- बिन्दवः स्वेदोदबिन्दवः । 'मन्थौदन-' (६।३।६०) इत्यादिना विकल्पादुद-

कशब्दस्योदादेशाभावः । तैरेव मौक्तिकैरस्य वधूरलंचकार । ग्रीष्मे तद्भयान्नासह्यं