जनसंकुला सा सेनेत्युत्तरश्लोकेनान्वयः । सा यदुसेना विस्तीर्णं द्विषतां बलं नरेन्द्रमार्गं राजपथं रथ्येव विशिखेव पपात संजगाम । उपमानेऽपि विशेषणं योज्यम् ॥ ४३ ॥
वारणागगभीरा सा साराऽभीगगणारवा ।
कारितारिवधा सेना नासेधा वरितारिका ॥४४॥
(युग्मम् ।)
वारणेति ॥ कीदृशी सेना । वारणैरेवागैरचलैर्गभीरा दुरवगाहा वारणागगभीरा सा साराणां श्रेष्ठानां न भियं गच्छन्तीत्यभीगानां निर्भीकाणां गणानां जन्तुसङ्घानामारवो यस्यां सा साराभीगगणारवा कारितारिवधा कृतशत्रुवधा । 'रामो राज्यमकारयत्' इतिवदन स्वार्थे णिच् । नास्त्यासेधः प्रतिषेधो यस्यां सा नासेधा । नञर्थेन नशब्देन बहुव्रीहिः । अनासेधा वा वरितारिका ईप्सितशत्रुका । अनेनाहं योत्स्य इति स्वयं वृतप्रतिभटेत्यर्थः । शैषिकः कप्प्रत्ययः । सा सेना पपातेति पूर्वेणान्वयः । अत्र प्रातिलोम्येन अर्धावृत्तेरर्धप्रतिलोमयमकमेतत् । लक्षणं तूक्तं 'निध्वनत्-' (१९॥३४) इत्यादिश्लोकप्रतिलोमयमके ॥४४॥
अधिनागं प्रजविनो विकसत्पिच्छचारवः ।
पेतुर्बहिणदेशीयाः शङ्कवः प्राणहारिणः ॥ ४५ ॥
अधीति ॥ प्रजवन्तीति प्रजविनोऽतिजवनाः । 'प्रजोरिनिः' (३।२।१५६) इति इनिप्रत्ययः । विकसद्भिः पिच्छैः कलापैश्चारवः । अत एव ईषदसमाप्सबर्हिण बर्हिणदेशीया मयूरकल्पाः । 'ईषदसमाप्तौ-' (५।३।६७) इत्यादिना देशीयर्प्रत्ययः । प्राणहारिणः शङ्कवः शल्यायुधानि । 'वा पुंसि शल्यं शङ्कुर्ना' इत्यमरः । नागेष्वधिनागम् । विभक्त्यर्थेऽव्ययीभावः । गजेषु, सर्पेषु च निपेतुः । सर्पेषु बर्हिण इवेत्यर्थः । अत एवोपमालंकारः । 'ग्रहो ग्राहि गजा नागाः' इति वैजयन्ती ॥ ४५ ॥
॥ गोमूत्रिकाबन्धः॥
प्र वृ त्ते वि क स द्धा नं सा ध ने प्य वि पा दि भिः ।
व वृषे वि क स द्दा नं यु ध मा प्य वि षा णि भिः ॥
प्रवृत्ते इति ॥ विकसन् जृम्भमाणो ध्वानो ध्वनियस्मिंस्तद्यथा तथा साधने संप्रहारे प्रवृत्तऽप्यविषादिभिर्विषादरहितैर्विषाणिभिर्दन्तिभिर्युधमाप्य प्राय विकसत्प्रभूतं दानं मदो ववृषे । युद्धारम्भे धनदानं च ध्वन्यते, सत्त्वसंपन्नत्वात् । साधनेऽप्यविषादस्याविरोधाद्विरोधाभासः । गोमूत्रिकाचित्रबन्धोऽयम् । 'वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः । गोमूत्रिकेति तत्प्राहुर्दुष्करं तद्विदो विदुः ॥' इति लक्षणात् । षोडशकोष्ठद्वये पतिद्वयेऽर्धद्वयं क्रमेण विलिख्यैकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिरित्युद्धारः ॥ ४६ ॥