अभग्नेति ॥ अभग्ना अभङ्गुरा वृत्ता वर्तुलाग्राश्च यास्ता अभग्नवृत्ताः । विशेषणसमासः । अन्यत्राचलितचरित्राः । बहुव्रीहिः । मुष्टिग्राह्यं मुष्टिधार्य मध्यं यासां ताः धनुर्लताः, अन्यत्र मुष्टिमेयमध्याः यौवनेनोद्धतैर्धृष्टैर्द्यप्तैश्च प्रसभाद्वलादाकृष्टाः सत्यः । एकत्र गुणेषु, अन्यत्र कचेषु चेति भावः । उच्चैस्तरां चक्रन्दुष्टंकारध्वनिं चक्रुर्धनुर्लताः; अन्यत्र चुकुशुश्च । अत्र प्रस्तुतधनुर्लताविशेषणादप्रस्तुतधूर्तास्कन्दितपतिव्रताप्रतीतेः समासोक्तिः । तथा च आकर्षणस्य विशेषणगत्या क्रन्दनहेतुत्वाकाव्यलिङ्गमङ्गाङ्गिभावेन संकीर्यते ॥ ३५ ॥
करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रशः ।
करेऽणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ।। ३६ ॥
करेणुरिति ॥ अनेको बहुः करेणुः करेणवः प्रस्थितः । जातावेकवचनम् । असंख्याताः करिणो योद्धं ययुरित्यर्थः । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । सहस्रशो घण्टाः करिकण्ठस्था रेणुर्दध्वनुः । 'अत एकहल्मध्येऽनादेशादेर्लिटि' (६।४। १२०) इत्येत्वाभ्यासलोपौ । करे पुष्करे अणुरल्पः शीकरोऽम्बुकणो जज्ञे । जातावेकवचनम् । करेष्वणवः शीकरा जाता इत्यर्थः । जनेः कर्तरि लिद । तेनाणुना शीकरण रेणू रजः शमं ययौ । एतेन करिणां बाहुल्यं व्यज्यते ॥ ३६॥
धृतप्रत्यग्रशृङ्गाररसरागैरपि द्विपैः ।
सरोषसंभ्रमैर्बभ्रे रौद्र एव रणे रसः ॥ ३७ ॥
धृतेति ॥ धृतः प्रत्यग्रः शृङ्गाररस एव रागो यैस्तैरपीति विरोधः । रौद्रश्रृङ्गारयोर्विरोधित्वाद्धृतसिन्दूररञ्जनैरित्यविरोधः । अत एव विरोधाभासोऽलंकारः । 'शृङ्गारः सुरते नाट्ये रसे च गजमण्डने । शृङ्गारं चूर्णसिन्दूरे लवङ्गकुसुमेऽपि च ॥' इति विश्वः । सरोषसंभ्रमैः द्विपैः रणे रौद्ररस एव क्रोधरस एव बभ्रे भृतः । कर्मणि लिट् ॥ ३७॥
न तस्थौ भर्तृतः प्राप्तमानसंप्रतिपत्तिषु ।
रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥ ३८ ॥
नेति ॥ भर्तृतः स्वामिनः प्राप्ते मानसंप्रतिपत्ती पूजासौमनस्ये यैस्तेषु प्राप्तमानसंप्रतिपत्तिषु रणे एकसर्गेषु नियतोत्साहेषु नियतनिश्चयेषु वा । 'सर्गास्तु सज्जनाध्यायस्वभावोत्साहनिश्चयाः' इति वैजयन्ती । पत्तिषु पदातिषु । मानसं प्रति । पत्तीनां मानसेष्वित्यर्थः । 'कर्मप्रवचनीययुक्ते द्वितीया' (२३८)। भयं न तस्थौ पूर्वोपकारस्मारिणो रणाय निर्भीकाः प्रातिष्ठन्तेत्यर्थः । अन्यथा 'यस्तु भीतिपरावृत्तः संग्रामे हन्यते परैः। भर्तुर्यद्युष्कृतं किंचित्तत्सर्वं प्रतिपद्यते ॥ यदस्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् । भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥' (मनु०७।९४,९५) इति निषेधस्मरणादिति भावः । अत्र मानसंप्रतिपत्त्योर्विशेषणगत्या भयानवस्थानहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गं यमकेन संसृज्यते ॥ ३०॥