पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७२
शिशुपालवधे

देर्द्वितीयस्य' (६।१।२) इति द्वितीयस्याचो द्विर्भावः । नुवद्धावादाम्प्रतिषेधः । यमकवाक्यार्थहेतुककाव्यलिङ्गयोः संसृष्टिः ॥ २१ ॥

   केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।
   शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥ २२ ॥

 केशेति ॥ विकासिना विविधमार्गचारिणा, विकस्वरेण च कुसुमलक्ष्मणा पुष्पकेतुना प्रद्युम्नेन, अन्यत्र कुसुमचिह्नेन । तन्मयेनेत्यर्थः । केशवत्प्रचुराः प्रभूता लोका जना यस्मिंस्तस्य युद्धस्य शिरोऽग्रभूमिः, अन्यत्र केशैः प्रचुरस्य केशाढ्यस्य लोकस्य जनस्य शिरः मूर्धा शेखरेणापीडेनेव । शिखामाल्येनेवेत्यर्थः । 'शिखास्वापीडशेखरौ' इत्यमरः । पर्यस्कारि परिष्कृतम् । भूषितमित्यर्थः । परिपूर्वात्करोतेः कर्मणि लिद 'संपर्युपेभ्यः करोती भूषणे' सुडागमः 'अडभ्यास- व्यवायेऽपि' (वा०) इति नियमात् 'परिनिविभ्यः-' (८।३।७०) इत्यादिना षत्वे 'सिवादीनां वाड्व्यवायेऽपि' (८।३।७१) इति विकल्पः । उपमा ॥ २२ ॥

   सादरं युध्यमानापि तेनान्यनरसादरम् ।
   सा दरं पृतना निन्ये हीयमाना रसादरम् ॥ २३ ॥

 सादरमिति ॥ सादरं साभिनिवेशं युध्यमानापि संग्रहरन्त्यपि अरं द्रुतम् । हठादिति यावत् । रसाद्रणे रागात् हीयमाना अपकृष्यमाणा । प्रद्युम्नमहिन्नेति भावः । अत एवात्र विरोधाभासोऽलंकारः । जहातेः कर्मणि लिटः शानजादेशः । सा पृतना चैद्यसेना तेन प्रद्युम्नेन अन्येषां तटस्थानामपि नराणां सादं निश्चेष्टतां राति ददातीति अन्यनरसादरम् । 'आतोऽनुपसर्गे कः' (३।२।३) इति कप्रत्ययः । दरं भयम् । 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः । निन्ये नीता । नयतेः प्रधाने कर्मणि लिट् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् विरोधाभासयमकयोः संसृष्टिः ॥ २३ ॥

   इत्यालिङ्गितमालोक्य जयलक्ष्म्या झपध्वजम् ।
   क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥ २४ ॥

 इतीति ॥ इतीत्थं जयलक्ष्म्या आलिङ्गितं झषध्वजं मत्स्यकेतुं प्रद्युम्नम् । 'पृथुरोमा झषो मत्स्यः' इत्यमरः । आलोक्य सद्यः क्रुद्धया सपत्यागमाकोपितयेवेत्युत्प्रेक्षा । क्रुधा प्रद्युम्नाश्रितया रुषा काञ्र्या चेदिभूपतिः प्रपेदे प्राप्तः । विहायेति शेषः । कामिन्यः प्रायेण साहसिक्यः सपत्नीगन्धमसहमानाः सद्यः पुरुषान्तरमाश्रयन्त इति भावः । विजयिनं प्रद्युम्नं दृष्ट्वा सद्यश्चैद्यश्रुकोपेत्यर्थः ॥ २४ ॥

   अहितानभि वाहिन्या स मानी चतुरङ्गया ।
   चचाल वल्गत्कलभसमानीचतुरङ्गया ॥ २५ ॥

 अहितानिति ॥ मानी अभिमानवान् स क्रुद्धश्चैद्यः वल्गन्तः प्लवमानाः कलभसमाः कलभप्रमाणाः अत एवानीचा उच्चास्तुरङ्गा यस्यां तया वलगत्कलभसमा.