पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४६
शिशुपालवधे

 वर्धाबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुचलन्तः ।
 रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्य शेषाः ॥५॥

 वर्धेति ॥ धौरितेन धौरिताख्येन गतिविशेषेण प्रयातां धावताम् । यातेर्लट: शत्रादेशः । अश्वीयानामश्वसमूहानाम् । 'केशाश्वाभ्यां यच्छावन्यतरस्याम्' (४।२।४८) इति छप्रत्ययः । उच्चकैरुच्चलन्तो गतिवशादूर्ध्वमुत्पतन्तः वर्धन्ते इति वर्ध्राणि पर्याणबन्धनवरत्राः । 'वर्ध्रं त्रपुवरत्रयोः' इति विश्वः । 'वृधुवधिवपिभ्यो रन्' इति रन्प्रत्ययः । लघूपधगुणो रपरः । तेष्वाबद्धाः स्थापिता रौक्माः सौवर्णाः स्थासकाः बुहृदाकारमण्डलानि व्याप्तदेहस्य सर्वाङ्गीणस्य मूर्तिभाजो मूर्तिभृतः दर्प- स्यान्तरस्य तेजसः शेषाः अन्तरमानाद्वहिर्निर्गता अतिरेका इव रेजुरित्युत्प्रेक्षा ॥५॥

 सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षा आङ्गीं शोभामाप्नुवन्तश्चतुर्थीम् ।
 कल्पस्यान्ते मारुतेनोपनुन्नाश्चेलुश्चण्डं गण्डशैला इवेभाः॥६॥

 सान्द्रेति ॥ सान्द्रत्वकाः सान्द्रवर्माणः । शैषिकः कप्प्रत्ययः । तल्पलाः पृष्ठवंशास्तेषु श्लिष्टाः कक्षाः मध्यबद्धवरत्रा येषां ते । 'दूष्या कक्षा वरत्रा स्यात्' इत्यमरः । गजानां विंशत्युत्तरशतायुषां द्वादश दशा भवन्ति तत्र चतुर्दशारू. ढाप्रौढशोभा । तदेवाह -अथ चतुर्थीमाङ्गीं शारीरीं शोभामाप्नुवन्तः । चत्वारिंश- द्वर्षदेश्या इत्यर्थः । इभा गजाः कल्पस्यान्ते मारुतेनोपजुन्नाः प्रलयमारुतप्रेरिताः गण्डशैलाः स्थूलोपला इव चण्डं तीव्रं चेलुः प्रतस्थिर इत्युपमा ॥ ६ ॥

 संक्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य ।
 रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ॥७॥

 संक्रीडन्तीति ॥ संक्रीडन्ती संघर्षात्कूजन्ती। 'समोऽकूजने च वक्तव्यम्' (वा०) इति वचनात्कूजने 'क्रीडोऽनुसंपरिभ्यश्च' (१॥३।२१) इति नात्मनेपदम् । रंहो- भाजां वेगभाजां स्यन्दनानां रथानामक्षस्य चकाधारकाष्टस्य धूरग्रमक्षधूः । 'अक्षं रथाङ्ग आधारे' इति वैजयन्ती । 'अनक्षे' इति निषेधात् 'ऋक्पू:-' (५।४।७४) इत्यादिना न समासान्तः । रागात् आरां प्रतोदमुद्यम्य तेजिता उत्साहिता अश्वा येन तस्य अग्रं चासौ कायश्च स उत्थितो यस्य तस्य । उत्थितपूर्वकायस्येत्यर्थः । आहितान्यादित्वात्साधुः । प्राजितुः सारथेः । 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः । हाहाकारसुत्साहवर्धनार्थं हाहाशब्दम् । एवकार इत्यत्रैव- ग्रहणस्योपलक्षणत्वादन्यत्रापि यथादर्शनं शब्दनिर्देशात्कारप्रत्ययः । अथवा हाहा- कारं हाहाकरणम् । भावे घञ् प्रत्ययः । प्रत्यनन्दत् साधु साध्वित्यन्वमोदत । किमित्युत्प्रेक्षा ॥ ७ ॥

 कुर्वाणानां सांपरायान्तरायं भूरेणूनां मृत्युना मार्जनाय ।
 संमार्जन्यो नूनमुद्धूयमाना भान्ति स्मोच्चौः केतनानां पताकाः ॥८॥

 कुर्वाणानामिति ॥ उच्चैरुन्नताः केतनानां ध्वजस्तम्भानां पताका वैजयन्त्यः सांपरायान्तरायं युद्धविघ्नं कुर्वाणानाम् । 'अनीकं सांपरायिकम्' इत्यमरः ।