सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
शिशुपालवधे

 एवं भगवतो निर्गुणस्वरूपमुक्त्वा संप्रति प्रस्तुतोपयोगितया सगुणमाश्रित्य षड्भिः स्तौति-

निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः ।
जगत्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम् ॥ ३४ ॥

 निवेशयामासिथेति ॥ जगत्रयस्यैकस्थपतिरेकाधिपतिरेकशिल्पी च । 'स्थपतिरधिपतौ तक्ष्णि बृहस्पतिसचिवयोः' इति वैजयन्ती । त्वं हेलयोद्धृतम् । वराहावतारे इति भावः । फणाभृतामोकस आश्रयस्य, सद्मनश्च । 'ओकः सद्मनि चाश्रये' इति विश्वः । एकं छादनमावरणं भूतलमुच्चकैरुन्नतेषु च अहीश्वरः शेष एव स्तम्भस्तस्य शिरःसु मूर्धसु, अग्रेषु च । फणासहस्रेष्विति भावः । निवेशयामासिथ निवेशितवानसि । विशतेर्ण्यन्ताल्लिटि थल् । 'कृञ्चानुप्रयुज्यते लिटि' (३।१।४०) इत्यस्तेरनुप्रयोगः। अत्र श्लिष्टाश्लिष्टरूपकयोहेतुहेतुमद्भावात् श्लिष्टं परम्परितरूपकम् ॥३४॥

अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेर्महिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरैः करोत्यधः ॥३५॥

 अनन्येति ॥ न विद्यतेऽन्यो गुरुर्यस्यास्तस्या अनन्यगुर्वाः इत्यनीकारान्तः पाठः । समासात्प्राङ्ङीषि 'नद्यृतश्च' (५।४।१५३) इति कप्प्रसङ्गः स्यात् । पश्चात्त्वनुपसर्जनाधिकारात् 'वोतो गुणवचनात्' (४।१।४४) इति न प्राप्नोति । 'ङिति ह्रस्वश्च' (१।४।६) इति वा नदीसंज्ञात्वात् 'आण्नद्याः' (७।३।११२) इत्याडागमः । केचित्तु समासान्तविधिरनित्य इति कपं वारयन्ति । तस्याः सर्वोत्तमायास्तव पुराणमूर्तेरमानुषस्वरूपस्य । केवलः कृत्स्नः । 'केवलः कृत्स्न एकः स्यात्केवलश्चावधारणे' इति विश्वः । महिमा केनावगम्यते । न केनापीत्यर्थः । कुतः । मनुष्याज्जन्म यस्य स मनुष्यजन्मा भवान् । 'अवर्ज्यो हि बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः' इति वामनः । भवच्छेदकरैः संसारनिवर्तकैर्गुणैर्ज्ञानादिभिः सुरासुरान् । सुरासुरविरोधस्य कार्योपाधिकत्वेनाशाश्वतिकत्वात् 'येषां च विरोधः शाश्वतिकः' (२।४।९) इति न द्वन्द्वैकवद्भाव इत्याहुः । अधः करोति । 'शेषे प्रथमः' (१।४।१०८) इति प्रथमपुरुषः । भवच्छब्दस्य युष्मदस्मदन्यत्वेन शेषत्वादिति । मानुष एव ते महिमा दुरवगाहः । अमानुषस्तु किमिति तात्पर्यार्थः । द्वितीयार्थेऽसकृद्व्यञ्जनावृत्त्या छेकानुप्रासः ॥ ३५ ॥

लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।
उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥

 लघूकरिष्यन्निति ॥ त्वमतिभारेणोर्जेन स्वरूपेण भङ्गुरां स्वयं भज्यमानाम् । 'भञ्जभासमिदो घुरच्' (३।२।१६१)। 'भङ्गुरः कर्मकर्तरि' इति वामनः। अमूम् । भुवमित्यर्थः । लघूकरिष्यन् निर्भारां करिष्यन् किल । 'कृभ्वस्ति-' (५।४।५०) इत्यादिनाऽभूततद्भावे च्विः । ‘च्वौ च' (७।४।२६) इति दीर्घः । तृतीया द्यौस्त्रि-

पाठा०-१ 'अनन्यगुाः'. २ 'भवोच्छेद".