पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७४
शिशुपालवधे

न बिभर्ति । प्रधानमप्ययं न भवतीत्यर्थः । अनुभूतविक्रियाणि प्रकृतिस्थानि सत्त्वरजस्तमांसि प्रधानशब्देनाहुः । तथाऽनभिमानितामनहंकारितां दधत्स्वस्यात्मनः पृथग्जनतां जनव्यतिरिक्तत्वं कथयतीति वा । जनाः पञ्चतन्मात्राणि । पृथग्भूतो जनेभ्यः, पृथग्वा जनो यस्मात्स पृथग्जनः । तद्भावस्तत्ता तां कथयति । सर्वातीतत्वात् । तेनायं 'न महान् , न प्रधानम्, न भूतानि, न तन्मात्राणि, नाहंकारः' इति वाक्यार्थः । पञ्चविंशकोऽयं पुरुषः । चतुर्विंशकबाह्य इति यावत् ॥२॥

 भूयोऽपि निर्गुणत्वमाह-

 रहितं कलाभिरखिलाभिरकृतरसभावसंविदम् ।
 क्षेत्रविदमपदिशन्ति जनाः पुरवाह्यमेनमगतं विदग्धताम् ॥३॥

 रहितमिति ॥ एनं हरिं क्षेत्रविदमपदिशन्ति कर्षकमाहुः । अत एव पुरबाह्यं ग्राम्यम् । कार्षिका हि नगराबहिर्वसन्ति । यद्वा पुरस्य वाहनीयो वाह्यः पुरायत्तः । तथा सर्वाभिः कलाभिर्गीतवाद्यादिभिर्वर्जितम् । यतः अकृता रसानां शृङ्गारादीनां भावानां रत्यादिकानां च संवित् संकेतः संवचनं येन । विदग्धशास्त्राणां संकेतमपि यो न वेदेत्यर्थः । यतो विदग्धतां वैदग्ध्यमगतमप्राप्तम् । इति निन्दा ॥

 स्तुतिस्तु-- एनं भगवन्तं क्षेत्रज्ञमात्मानमामनन्ति । क्षेत्रं शरीरम् । कीद्दशम् । समग्राभिः कलाभिरवयवै रहितं निष्कलम् । प्रकृतरसा अविहितरागा भावसंवित्पदार्थसंवेदनं यस्य । पुरुषो हि भावान्वेत्ति नतु तत्र रसज्ञतां भजते । यद्वा अविद्यमानाः कृतरसभावाः कर्मरागोत्पत्तयो यस्य स चासौ संवित् चिद्रूपः । पुरादेहाद्बाह्यं विलक्षणम् । विदग्धतां विशेषेण दाह्यत्वमगतम् । यदाह 'नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः' (भ. गी. २।२३) इति ॥ ३॥

 अतिभूयसापि सुकृतेन दुरुपचर एष शक्यते ।
 भक्तिशुचिभिरुपचारपरैरपि न ग्रहीतुमभियोगिभिर्नृभिः ॥ ४॥

 अतीति ॥ अयमेवंविधैरपि नृभिर्ग्रहीतुमावर्जयितुं न शक्यते । कीदृशैः । भक्त्या तत्त्वतः शुचिभिः शुद्धमतिभिः उपचारपरैराराधनपरैरभियोगिभिः एतन्मनोभिः । कथं तर्हि न शक्यत इत्याह-यतोऽतिभूयसापि बहुतरेणापि सुकृतेनो- पकारेण दुरुपचरो दुराराधः । अकृतज्ञोऽयमिति वाक्यार्थः । इति निन्दा ॥

 स्तुतिस्तु-एषोऽभियोगिभिराभिमुख्येन योगिभिरपि नृभिर्ग्रहीतुं परिच्छेत्तुं न शक्यते । आत्मतत्त्वस्य दुर्ज्ञानत्वात् । कीदृगेषः । अतिभूयसापि सुकृतेन यज्ञदानादिना दुरुपचरो दुराराधः भक्तिगम्यो हि भगवान् । कीदृशैर्नृभिः । भक्त्या शुचिभिर्निर्मलीमसैः । केचित्त्वमताशङ्कया ननं काका व्याचक्षते । नैष सुकृतेन दुरुपचरो योगिभिरपि न ग्रहीतुं शक्यते । परंतु तैरेव ज्ञायत इत्यर्थः । यदुक्तम् 'नाहं वेदैर्न तपसा-' (भ. गी. ११।५३) इत्यादि ॥ ४ ॥