पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७२
शिशुपालवधे

 अवधीञ्जनंगम इवैष यदि हतवृषो वृष ननु ।
 स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ॥ ३५ ॥

 अवधीदिति ॥ हतवृषो हतसुकृतः। 'सुकृतं वृषभे वृषे' इति विश्वः । एष कृष्णो जनंगमश्चाण्डाल इव । 'चाण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः' इत्यमरः । 'गमश्च' (३।२।४७) इति संज्ञायां जनपूर्वाद्गमधातोः खच्प्रत्ययः "अरुर्द्विषत्-' (६।३।६७) इत्यादिना मुमागमः । वृषं वृषभरूपिणमरिष्टाख्यमसुरमवधीद्यदि हतवांश्चेत् । 'लुङि च' (२।४।४३) इति हनो वधादेशः । अत एव अशुचिवपुरशुद्धामा स्पर्श नार्हति । नृपोचितां राजाही प्रतिमाननां पूजां तु नितरां नार्हति । स्पर्शायोग्यो गोघ्नः कथं पूज्य इत्यर्थः । उपमा ॥ ३५ ॥

 यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति ।
 स्तन्यमघृणमनसः पिवतः किल धर्मतो भवति सा जनन्यपि ॥३६॥

 दीयति ॥ अस्य कृष्णस्य मतिः पूतना नाम बालग्रहविशेषः, तां प्रति अङ्गनेति हेतोर्मृदुः कृपा दया नाजनि यदि न जाता चेत् मास्त्विति शेषः । जनेः कर्तरि लुङ् 'दीपजन-' (३।१।६१) इत्यादिना चिण्प्रत्ययः । अघृणमनसो निर्घृणचित्तस्य । स्तने भवं स्तन्यं पयः । 'शरीरावयवाद्यत्' (५।१।६) इति यत्प्रत्ययः । पिबतोऽस्य सा पूतना धर्मतः शास्त्रतो जनन्यपि माता च भवति खलु । स्त्रीति कृपाभावेऽपि मातेति जुगुप्साप्यस्य नास्तीत्यहो न केवलं स्त्रीहन्ता, किंतु मातृहन्ता चायम् । स्तनप्रदाया उपमातृत्वादिति भावः । अत्र स्तनपानस्य विशेषणगत्या जननीत्वहेतुत्वात्काव्यलिङ्गम् ॥ ३६ ॥

 शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् ।
 कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः॥३७॥

 शकटेति ॥ तरलश्चपलोऽयं कृष्णः शकटव्युदासः शकटासुरमर्दनं तरुभङ्गो यमलार्जुनभञ्जनं धरणिधरधारणं गोवर्धनोद्धरणम् , तानि आदिर्यस्य तत्तथोक्तं यत्कर्माकरोत्तेन कर्मणा स्थिरचेतसां धीरचित्तानां क इव विस्मयः । न कोऽपीत्यर्थः । अत्र स्थिरचेतस्कताया विशेषणगत्या विस्मयनिषेधहेतुत्वात्काव्यलिङ्गं वृत्त्यनुप्रासेन संसृज्यते ॥ ३७॥

 अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् ।
 खामिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतम् ॥३८॥

 अयमिति ॥ अपरोऽन्यः ना पशुरिवेति नृपशुरित्युपमितसमासः ।कार्याकार्यविवेकशून्यत्वादेवेत्यर्थः । अयं कृष्णः उग्रसेनतनयस्य कंसस्य पशूनवन् गाः पालयन् पुरुषैरसुकरं लोकवेदविगीतत्वाद्दुष्करं स्वामिवधं यत्कुरुते स्म । चकारेति यावत् । एतत्परममद्भुतम् । अभूतपूर्ववदिति भावः । अत्र पश्ववनस्य विशेषण गत्या कंसकृष्णयोः स्वामिभृत्यभावहेतुत्वाकाव्यलिङ्गम् ॥ ३८॥