सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५४
शिशुपालवधे

 भक्तिमन्त इति ॥ भक्तवत्सले भक्तप्रिये इहास्मिन् हरौ भक्तिमन्तोऽनुराग- वन्तो जनाः । पूज्येष्वनुरागो भक्तिः संततं सततं तत्स्मरणेन निरन्तरध्यानेन रीणकल्मषाः क्षीणपापाः सन्तः । 'री क्षये 'ल्वादिभ्यः' (८|२।४४) इति निष्ठानत्वम् । अस्यानुभूयमानस्य कृष्णस्य संसृतिः संसारस्तस्य क्लेशो दुःखं तदेव नाटकमिति रूपकम् । तस्य विडम्बनाभिनयस्तस्य निर्वहणं समाप्तिं यान्ति । मुच्यन्त इत्यर्थः । 'तमेवंविद्वानमृत इह भवति' (श्वेता० ६।१५) इति श्रुतेरिति भावः ॥ ६३ ॥

 ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा ।
 दुर्गमेकमपुनर्निवृत्तये१ यं विशन्ति वशिनं मुमुक्षवः ॥ ६४ ॥

 ग्रामेति ॥ ग्रामे भवा ग्राम्याः प्राकृताः । मूढा इति यावत् । 'ग्रामाद्यखजौ' (४।२।९४) इति यप्रत्ययः । तेषां भावस्तमपहातुं मोक्तुमिच्छवो मुमुक्षवो मोक्षार्थिनः अपुनर्निवृत्तयेऽपुनरावृत्तये पुनरावृत्त्यभावाय । मोक्षायेत्यर्थः । दुः- खेन गम्यत इति दुर्गं दुष्प्राप्यं एकमेवाद्वितीयं वशिनं स्वतन्त्रं यं हरिं योगमार्ग- पतितेन ध्यानमार्गनिविष्टेन । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । चेतसा विशन्ति ध्यायन्तीत्यर्थः। यं विशन्ति इह भक्तिमन्त इति पूर्वेणान्वयः॥६॥

 अथ भक्त्युद्रेकान्नमस्करोति-

 आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने ।
 बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥६५॥

 आदितामिति ॥ देहिनां प्राणिनामादितां कारणताम् । अन्तोऽन्तकरो नाश- हेतुः । 'तत्करोति-' (ग०) इति ण्यन्तादन्तयतेः पचाद्यच् । तस्य भावस्तत्ता- मन्ततां च दधते । 'यतो वा इमानि भूतानि जायन्ते' (तैत्ति० ३।१) इत्यादि- श्रुतेः । स्वयमजननाय जन्मरहिताय । अपायोऽस्यास्तीत्यपायी स न भवतीत्यन- पायी तस्मा अनपायिने नाशरहिताय च । कालतोऽपरिच्छिन्नायेत्यर्थः । देशतोऽपि तथेत्याह-सदाऽधः पाताले भुवं बिभ्रते कूर्मरूपेण दधते । अथ च तथैव ब्रह्मणो लोकस्याप्युपरि तिष्ठते । सर्वव्यापिन इत्यर्थः । तस्मै । हरय इति शेषः । नमः नमस्कारः। 'नमःस्वस्ति-' (२।३।१६) इत्यादिना चतुर्थी । अत्र हरेरनादि- निधनत्वेन तद्व्रतः पुरुषान्तरादाधिक्यवर्णनाद्व्यतिरेकालंकारः ॥६५॥

 केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।
 धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥६६॥

 केवलमिति ॥ सृजतिश्च संहृतिश्च शास्तिश्च सृजतिसंहृशास्तयः । 'सृज विसर्गे' 'हृञ् हरणे' संपूर्वोऽयं 'शासु अनुशिष्टौ' इत्येते त्रय इत्यर्थः । 'इक्श्तिपौ धातुनिर्देशे' (वा० ) इति वचनादेवं निर्देशः । धातवो 'भूवादयो धातवः' (१| ३|१) इत्युक्तलक्षणाः शब्दविशेषाः। इहास्मिन्भगवति विषये केवलमन्ययोगव्यवच्छिन्नं यथा तथा कर्तृवाचिनः कर्तृकारकवाचकान्दधति । तदन्ता एव भवन्तीत्यर्थः ।

पाठा०-१ 'पुनर्विवर्तये'.